________________
७७
स्याहादमञ्जरी। मालभेत भूतिकाम इत्यादि एतदपि व्यभिचारपिशाचग्रस्तत्वादप्रमाण मेव भूतेश्चौपयिकान्तरैरपि साध्यत्वादथ तत्व सत्रे हन्यमानानां छागादीनां प्रेत्य सङ्गतिप्राप्तिरूपोऽस्त्येवोपकार इति चेदाङ्मावमेतत् प्रमाणाभावात् न हि ते निहताः पशवः सहतिलाभमुदितमनमः कस्मै चिदागल्य तथाभूतमात्मानं कथयन्ति अथास्त्यागमाख्य प्रमाणं यथा ।
औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितं पुनः ॥
इत्यादि नैवं तस्य पौरुषेयापौरुषयविकल्पाभ्यां निराकरिष्यमाणत्वान्न च श्रौतेन विधिना पशुविशसनविधायिना खर्गावाप्तिरुपकार इति वाच्यं यदि हि हिंसयाऽपि स्वर्गप्राप्तिः स्यो त्तहि बाढं पिहिता नरकपुरप्रतोल्पः शौनकिकादौनामपि स्वर्गप्राप्तिप्रसङ्गात् तथा च पठन्ति परमार्याः ।
यूपं छित्वा पशुन् हत्वा कृत्त्वा रुधिरकइमम् । यद्येवं गम्यते स्वर्गे नरके केन गम्यते ॥
किं चापरिचितास्पष्टचैतन्यानुपकारिपशुहिंसनेनापि विदिवपदवीप्राप्तिस्तदा परिचितस्पष्टचतन्यपरमोपकारिमातापित्रादिव्यापादनेन यतकारिणामधिकतरपदप्राप्तिः प्रमज्यते अथाचिन्त्यो हि मगिमन्त्रौषधीनां प्रभाव इति वचनादिकमन्त्राणा