________________
६४
स्याद्वादमञ्जरी ।
तावयवयोः संघट्टनं पश्चादिति चढेकान्तेन छेदानभ्युपगमात् पद्मनालतन्तुवच्छेदस्यापि खौकारात् तथाभूतादृष्टवशातत्संघट्टन मविरुद्धमेवेति तनुपरिमाण एवात्माङ्गीकर्त्तव्यो न व्यापकस्तथा चात्माव्यापको न भवति चेतनत्वात् यत्तु व्यापकं न तच्चेतनं यथा व्योम चोतनश्चात्मा तस्मान्न व्यापकः अव्यापकत्वे चास्यतत्रैवोपलभामानगुणत्वेन सिद्धा कायप्रमाणता यत्पुनरष्ठसमयसाध्य के वलिसमुज्ज्ञात* दशायामार्हतानामपि चतुर्दशरत्रात्मक लोकव्यापित्वेनात्मनः सर्वव्यापकत्वं तत्कादाचित्कमिति न तेन व्यभिचारः स्याद्दादमन्त्रकवचावगुण्ठितानां च नेहशविभौषिकाग्यो भयमिति काव्यार्थः ॥ ६॥
वैशेषिकनेयायिकयोः प्रायः समानतन्वत्वा दौलूकामते चिप्ते न्यायमतमपि क्षिप्तमेवावसेयं पदार्थेषु च तयोरपि न तुल्या प्रतिपत्तिरिति सांप्रतमक्षपादप्रतिपादितपदार्थानां सर्वेषां चतुर्थपुरुषार्थं प्रत्यसाधकतमत्वे वाच्येऽपि तदन्तःपातिनां छलजातिनिग्रहस्थानानां परोपन्यासनिरासमावफलत्या - त्यन्तमनुपादेयत्वात् तदुपदेशदातुर्वैराग्यमुपहसन्नाह। स्वयंविवादग्रहिले वितण्डापाण्डित्यकण्डलमुखे जनेऽस्मिन् ।
* समुद्दाति २ पु० पाठः ।