________________
स्यादादमञ्जरौ |
६३
जला दे -
तद्रव्यपरिमाणलक्षणमूर्तत्वस्य मनोवत्प्रवेशाप्रतिबन्धकत्वाद्रूपादिमत्वलक्षणमूर्त्तत्वापेतस्यापि बलुकादावनुप्रवेशो न निषिध्यते श्रात्मनस्तु तद्रहितस्यापि तवासी प्रतिषिध्यत इति महच्चित्रम् अथात्मनः कायप्रमाणत्वे बालशरीरपरिमाणस्य सतो युबशरीरपरिमाणस्त्रीकारः कथं स्यात्किं तत्परिमाणपरित्यागात्तदपरित्यागांदा परित्यागाच्चेत् तदा शरौरवत्तस्यानित्यत्वप्रसङ्गात्परलोकाद्यभावानुषङ्गः अथापरित्यागात् तन्न पूर्वपरिमाणापरित्यागे शरौरत्रत्तस्योत्तरपरिमाणोत्पत्यनुपपतेः तदयुक्त युवश - रौरपरिमाणावस्थायामात्मनो बालशरीरपरिमाणपरित्यागे सर्वथा विनाशासम्भवात् विफणावस्थोत्पादे सर्पवदिति कथं परलोकाभावोऽ नुषज्यते पर्यायतस्तस्यानित्यत्वेऽपि द्रव्यतो नित्यत्वात् अथात्मन: का
प्रमाणत्वे तत्खण्ड ने खण्डनप्रसङ्ग इति चेत्कः किमाह शरीरस्यखण्ड ने कथंचित्तत्खण्डन स्पेष्टत्वा च्छरोरसम्बद्धात्मप्रदेशेभ्यो हि कतिपयात्मप्रदेशानां खगिडत शरीरप्रदेशेऽवस्थानादात्मनः खण्डनं तच्चात्र विद्यत एवान्यथा शरीरात्पृथग्भूतावयवस्य कम्पोपलब्धिर्न स्यान्न च खण्डितावयवानुप्रविष्टस्यः त्मप्रदेशस्यपृथगात्मत्वप्रसङ्ग स्तत्रैवानुप्रवेशात् न चैकत्र सन्तानेऽनेके श्रात्मानः अनेकार्थप्रतिभासिज्ञानामेकप्रमावाधारतया प्रतिभासाभावप्रसङ्गात् शरीरान्तरव्यवस्थितानेकज्ञानावसेयार्थसंवित्तित् कथं खण्डि -