________________
स्थाहादमारी। ति पुरुषोपभोग्यानि कनकरत्नचन्दनाङ्गनादौनि तेनोत्पाद्यन्ते गणश्च गुणिनं विहाय न वर्तते ऽतोऽनुमीयते सर्वगत आत्मेति नैवम् अदृष्टम्य सर्वगतत्वसाधने प्रमाणाभावात् अथास्त्येव प्रमाणं वन्हेरूई ज्वलनं वायोस्तियंगगमनं चादृष्ट कारितमिति चेन्न तयो स्त स्वभावत्वादेव तत्सिद्धे दहनस्य दहनशक्तिवत् साप्पदृष्टकारिता चेतहि जगत्त्रयवैचित्रीसूत्रणेऽपि तदेवसूत्रधारायतां किमीश्वरकल्पनया तन्नायमसिद्धो हेतुः नचानै कान्तिकः साध्यसाधनयो ाप्तिग्रहणेन व्यभिचाराभावात् नापि विरुद्दोऽ त्यन्तं विपक्षव्यारत्तत्वात् आत्मगुणाश्च बुद्ध्यादयः शरीर एवोपलभ्यन्ते ततो गणिनापि तत्र व भाव्यमिति सिद्धः कायप्रमाणा प्रात्मा अन्यच्च त्वया आत्मनां बहुत्वमिष्यते "नानात्मानो व्यवस्थात" इति वचनात्ते च व्यापकास्तेषां प्रदीपप्रभामगडलानामिव परस्परानुवेधेन तदाश्रितशुभाशुभ कर्मणामपि परस्परं सङ्करः स्यात् तथाचैकस्य शुभकर्मणा अन्यः मुखी भवेदितरस्याशमकर्मणा अन्योदुःखौत्यसमञ्जसमापोत अन्यच्चैकस्यैवात्मनः खोपात्तराभकर्मविपाकेन सुखित्वं परोपार्जिताशुभकर्मविपाकसम्बन्धेन च दुःखित्वमिति युगपत्सुखदुः खसंवेदनप्रसङ्गः अथ खावष्टब्धभोगायतनमाश्रित्यैत्र शुभाशुभयो भॊगस्तहि स्वोपार्जितमप्यदृष्टं कथं भोगायतनाइहिनिष्क्रम्य वङ्गेरूई ज्वलनादिकं करोतौति चिन्त्यमेतत् अात्मनां च सर्वगतत्वे एकैकस्य