________________
स्याहादमञ्जरी। अथ ते वादिनः कायप्रमाणत्वमात्मनः स्वयंसंवेद्यमानमप्यपलप्य तादृशकुशास्त्रशस्त्रसंपर्कविनष्टहष्टयस्तस्य विभुत्वं मन्यन्तेऽतस्तत्रोपालम्भमाह ।
यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवन्निष्प्रतिपक्षमेतत् । तथापि देहाबहिरात्मतत्वमतत्ववादोपहताः पठन्ति ॥८॥
यव व देश यः पदार्थो दृष्टागुणो दृष्टाः प्रत्यक्षादिप्रमाणतोऽनुभूता गुगा धर्मा यस्य स तथा स पदार्थस्तत्र व विवक्षितदेश एवोपपद्यते क्रियाध्याहारो गम्यः पूर्वस्यैवकारस्थावधारणार्थस्थानाप्यभिसम्बन्धात् तत्रव नान्यत्र त्यन्ययोगव्यवच्छेदः अमुमेवार्थ दृष्टान्तेन द्रढयति कुम्भादिवदिति घटादिवत् यथा कुम्भादे यत्रैवदेशे रूपादयो गुणा उपलभ्यन्ते तत्र व तेषामस्तित्वं प्रतीयते नान्यत्र एवमात्मनोऽपि गुणाश्चैतन्यादयो देह एव दृश्यन्ते न बहिस्तस्मात् तत्प्रमाण एवायमिति यापि पुष्पादीनामवस्थानदेशादन्यत्रापि गन्धादिगुण उपलभ्यते तथापि तेन न व्यभिचारस्तदाश्रया हि गन्धादिपुङ्गलास्तेषां च वैसंसिक्या प्रायोगिक्या वा गत्या गतिमत्वेन तदुपलम्भकघ्राणादिदेशं यावदागमनोपपत्तरिति अत एवाह