________________
स्थाहादमञ्जरौ। तपस्विनः कथं चिदच्छेदोऽ स्माकमप्यभिमत एवैषामिति मा विरूपं मनः कृथास्तथा हि बुद्धिशब्देन ज्ञानमुच्यते तच्च मतिश्रुतावधिमनःपर्यायकेवलभेदा त्यञ्चधा तबाद्यं ज्ञानचतुष्टयं क्षायोपशमिकत्त्वा केवलज्ञानाविर्भावकाल एव प्रलीनं " न मिउ ठाउ मछिरानाणे" इत्यागमात्केवलं तु सर्वद्रव्यपर्यागतं क्षायिकत्वेन निष्कलङ्कात्मस्वरूपत्वादस्त्येव मोक्षावस्थायां सुखं तु वैषयिकं तत्र नास्ति तई तो वेदनीयकर्मणो ऽभावात् यत्तु निरतिशयमक्षयमनपेक्षमनन्तं च सुखं तबाढं विद्यते दुःखस्य चाधममूलत्वात्तदुच्छेदादुच्छेदः नन्वेवं सुखस्यापि धर्ममूलत्वाइर्मस्य चोच्छेदात्तदपि न युज्यते " पुण्यपायक्षयो मोक्ष" इत्यागमवचनात् नैवं वैषयिकमखस्यैव धर्ममूलत्वा भवतु तदुच्छेदो न पुनरनपेक्षग्यापि सुखस्योच्छेदः इच्छाद्देषयोः पुनर्मोहभ दत्त्वा त्तस्य च समूलकाषंकषितत्वादभाव: प्रयत्नश्च क्रियाव्यापारगोचरो नास्त्येव कतकृत्यत्या दौर्यान्तराय क्षयोपनतस्त्वस्त्येव प्रयत्नो दानाधिलब्धिवत् न च क्वचिदुपयुज्यते कृतार्थत्वात् धर्माधर्मयोस्तु पुण्यपापापरपर्याययोरुच्छेदोऽस्त्येव तदभावे मोक्षस्यैवायोगात् संस्कारश्च मतिज्ञातविशेष एव तस्य च मोहक्षयानन्तरमेव क्षौणत्वादभाव इति तदेवं न संविदानन्दमयौ च मुक्तिरिति युक्तिरितयमुक्तिरिति काव्यार्थः ।