SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ५० स्वादादमञ्जरौ | तथा परिणामेन वासिरपि तस्य काष्ठस्य घटने व्याप्रियते पुरुषोऽपीत्येवंलक्षणैकार्थसाधकत्त्वाद्दासिवर्डक्यो रभेदध्युपपद्यते तत्कथमनयो र्भेद एवेत्य ुच्यते एवमात्मापि विवचितमर्थमनेन ज्ञानेन ज्ञास्यामीति ज्ञानग्रहणपरिणामवान् ज्ञानं गृहीतार्थं व्यवस्यति ततश्च ज्ञान. त्मनोरुभयोरपि संवित्तिलक्षणैककार्यसाधकत्वादभेद एवं एवं कर्त्तृकरणयोरभेदे सिद्धे संवित्तिलक्षणं कार्यं किमात्मनि व्यवस्थित आहोखि द्विषय इति वाच्यम् आत्मनि चेत सिद्धं नः समीहितं विषये चेत्कथमात्मनोऽनुभवः प्रतीयते अथ विषयस्थितसं वित्तेः सकाशादात्मनो ऽनुभवस्तर्हि किं न पुरुषान्तरस्यापि तद्भेदाविशेषात् अथ ज्ञानात्मनोरभेदपक्षे कथं कर्त्तृकरणभाव इति चेत् ननु यथा सर्प आत्मानमात्मना वेष्टयतीत्यत्र अभेदे यथा कर्तृकरणभावस्तथावापि अथ परिकल्पितोऽयं कर्ट करणभाव इति चेत् वेष्टनावस्थायां प्रागवस्थाविलक्षणगतिनिरोधलक्षणार्थक्रियादर्शनात् कथं परिकल्पितत्त्वं न हि परिकल्पनाशतैरपि शैलस्तम्भ आत्मानमात्मना वेष्टयतीति वक्तं शक्यं तस्मादभेदेऽपि कर्त्तकरणभावः सिद्ध एव किं च चैतन्यमितिशब्दस्यार्थ इति चिन्त्यतामन्वर्थश्चेन्न चेतनस्य भावश्चैतन्यं चेतनश्वात्मा त्वयापि कीर्त्यते तस्य भावः स्वरूपं चैतन्यं यच्च यस्य खरूपं न तत्ततो भिन्नं भवितुमर्हति यथा वृक्षाद् वृक्षस्वरूपम् अथास्ति चेतन श्रात्मा परं चेतना सभवा
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy