SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ स्याहादमञ्जरी। दिन्नौ स्यातामभिन्नौ वा यदि भिन्नौ ततस्तस्यैती स्वभावाविति कथं सम्बन्धः सम्बन्धनिबन्धनस्य समवायान्तरस्यानवस्थाभपादनभ्युपगमात् अथाभिन्नौ ततः समवायमात्रमेव न तौ तदव्यतिरिक्तत्वात्तत्स्वरूपवदिति किं च यथा इह समवायिषु समवाय इति मितिः समवायं विनाप्युपपन्ना तथा इहात्मनि जानमित्ययमपि प्रत्ययस्तं विनैव चेदच्यते तदा को दोषः अथात्मा कर्ता ज्ञानं करणां कर्तृकरणयोश्च वईकिवासीवझेद एव प्रतीतस्तत्कथं ज्ञानात्मनोरभेद इति तन्न दृष्टान्तस्यवैषम्यात् वासी हि बाह्यं करणं ज्ञानं चाभ्यन्तरं तत्कथमनयो: माधयं नचैवं करणस्य दैविध्यमप्रसिद्धं यदाहु लाक्षणिकाः । करणं विविध जेयं बाह्यमाभ्यन्तरं बुधैः । यथा लुनाति दावण मेरं गच्छति चेतमा ॥२॥ यदि हि किंचित्करणमान्तरमेकान्तेन भिन्नमुपदर्श्यते ततः स्यात् दृष्टान्तदा न्तिकयोः माधयं न च तथाविधमस्ति न च बाह्यकरणगतो धनः सर्वोऽप्यान्तर योजयितुं शक्यते अन्यथा दीपेन चक्षुषा देवदत्तः पश्यतीत्यत्रापि. दीपादिचक्षुषोऽप्येकान्तेन देवदत्तस्य भेदः स्यात् तथा च सति लोकप्रतीतिविरोध इति अपिच साध्य विकलोऽपि वासीवईकिदृष्टान्तस्तथा हि नायं बईकिः काष्ठमिदमनया वास्या घटयिष्य इत्येवं वासिग्रहणपरिणामेनापरिणतः मन् तामग्रहोत्वा घटयति किं तु तथा परिणतम्तां गृहीत्वा
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy