________________
स्थाहादमञ्जरी। त्मनः सकाशानिमिष्यते तदा तेन चैत्रज्ञानेन मैत्रस्येव नैव विषयपरिच्छेद स्याहात्मनः अथ यत्वैवात्मनि समवायसम्बन्धेन समवेतं ज्ञानं तवैव भावावभासं करोतीति चेन्न समवायस्यै कत्त्वा न्नित्यत्वा द्यापकत्वाच्च सर्वत्र वृत्तरविशेषात्समवायवदात्मनामपि व्यापकत्वादेकज्ञानेन सर्वेषां विषयावबोधप्रसङ्गः यथा च घटे रूपादयः समवायसंबन्धेन समवेतास्तहिनाशे च तदाश्रयस्य घटस्यापि विनाश एवं ज्ञानमप्यात्मनि समवेतं तच्च क्षणिकं ततस्तहिनाशे आत्मनोऽपि विनाशापत्ते रनित्यत्त्वापत्तिः अथास्तु समवायेन ज्ञानात्मनोः सम्बन्धः किं तु स एव समवायः केन तयोः संबध्यते समवायान्तरेण चेदनवस्था स्वे. नैव च किं न जानात्मनोरपि तथा अथ यथा प्रदीप स्वाभाव्यादात्मानं परं च प्रकाशयति तथा समवायस्येहगेव स्वभावो यदात्मानं ज्ञानात्मानौ च सम्बन्धयतीति चेत् ज्ञानात्मनोरपि किं न तथास्वभावता येन स्वयमेवैतौ संबध्येते किं च प्रदीपदृष्टान्तोऽपि भवत्पने न जाघटीति यः प्रदीपस्तावद्दव्यं प्रकाश श्च तस्य धर्मो धर्मधर्मिणोश्च त्वयात्यन्तं भेदोऽभ्युपगम्यते तत्कथं प्रदीपस्य प्रकाशात्मकता तदभावे च स्वपरप्रकाशकस्वभावताभणिति निर्मलैव यदि च प्रदीपात्प्रकाशस्यात्यन्तभेदेऽपि प्रदीपस्य स्वपरप्रकाशकत्वमिप्यत्ते तदा घटादीनामपि तदनुषज्यते भेदाविशेषादपि च तो स्वपरसम्बन्धस्वभावौ समवाया