________________
स्याहादमञ्जरी। ५१ यसम्बन्धान्न स्वतस्तथाप्रतीतेरिति चेत् तदयुक्तं यतः प्रतीतिश्चेत्प्रमाणीक्रियते तहिं निर्बाधमुपयोगात्मक एवात्मा प्रसिद्धाति न हि जातु चित्स्वयमचेतनोऽ हं चेतनायोगाच्च तनो ऽच तने वा मपि चेतनायाः समवाय इति प्रतीतिरस्ति ज्ञाताहमिति समानाधिकरणतया प्रतीतः भेदे तथाप्रतीतिरिति चेन्न कथं चित्तादात्म्याभावे सामानाधिकरण्यप्रतीतेपदशनात् यष्टिः पुरुष इत्यादिप्रतीतिस्तु मेरे सत्यपचारात् दृष्टा न पुनस्तात्त्विको उपचारस्य तु बीजं पुरुषस्य यष्टिगतस्तश्चत्वादिगुणैरभेदः उपचारस्य मुख्याथस्पर्शित्वात्तथा चात्मनि ज्ञाताहमितिप्रतौतिः कथं चिच्च तनात्मतां गमयति तामन्तरेण तातोह मितिप्रतीतेरनुपपद्यमानत्त्वाद् घटादिवत् न हि घटादिरचे तनात्मको ज्ञाताहमिति प्रत्येति चतन्ययोगाभावादसौ न तथा प्रत्येतीति चेन्न अचेतनस्यापि चतन्ययोगाच्चतनोऽहमिति प्रतिपत्त रनन्तरमेव निरस्तत्त्वादिति चेतनत्वं मिदमात्मनो जडस्यार्थपरिच्छेदं पराकरोति तं पुनरिच्छता चतन्यस्वरूपतास्य स्वीकरणीया ननु ज्ञानवान हमितिप्रत्ययादात्मत्तानयो मेंदो ऽन्यथा धनवानितिप्रत्ययादपि धनधनवतो अंदाभावानुषङ्गात् तदसत् यतो ज्ञानवानहमिति नात्मा भवन्मते प्रत्येति जड़त्व कान्तरूपत्त्वा ट् घटवत् सर्वथा जडश्च स्यादात्मा ज्ञानवानहमितिप्रत्ययश्च स्वादस्य विरोधाभावादिति मानि”षीत