________________
स्याद्वादमञ्जरौ। व्यपदेश इतिपराशङ्कापरिहारार्थम् औपाधिकमिति विशेषणहारण हेत्वभिधानम् उपाधेरागतम् औपाधिक समवायसम्बन्धलक्षणेनोपाधिना आत्मनि समवेतमात्मनः स्वयं जडरूपत्वात् समवाय संबन्धोपढौकितमिति यावत् यद्यात्मनो ज्ञानादव्यतिरिक्तत्वमिष्यते तदा दुःखजन्मप्रत्तिदोषमिथ्याज्ञानोनामुत्तरोत्तरापाये तदनन्तराभावाध्यादौनां नवानामात विशेषगुणानामुच्छेदावसरे आत्मनोऽप्यु च्छेदः स्यात् तदव्यतिरिक्त त्त्वादतो भिन्नमेवात्मनो ज्ञानं यौक्तिकमिति तथो न संविदित्यादिमुक्ति मोक्षो न संविदानन्दमयो न ज्ञानसुखरूपा संविद् ज्ञानम् आनन्दः सौख्यं ततो इन्दः संविदानन्दो प्रकृती यस्यां सा संविदानन्दमयी तादृशी न भवति बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काररूपाणां नवानामात्मनो वैशेषिकगुणानामत्यन्तीछेदो मोक्ष इति वचना चशब्दः पूर्वोक्ताभ्यपगमयसमुच्चये ज्ञानं हि क्षणिकत्त्वाद नित्यं सुखं च सप्रक्षयतया सातिशयतया च न विशिष्यते संसारावस्थात इति तदुच्छेदे आत्मस्वरूपणावस्थानं मोक्ष इति प्रयोगश्चात्र नवानामात्मविशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते संतानत्त्वादयीयः सन्तानः स सोऽत्यन्तमुच्छिद्यते यथा प्रदीपसन्तानस्तथा चायं तस्मादत्यन्तमुच्छिद्यते इति तदुच्छेद एव महोदयो न कृत्स्नकर्मचयलक्षण इति"न हि वै सशरीरस्य प्रियाप्रिययो रपहतिरस्ति अशरोरं वा वसन्तं प्रियाप्रिये न स्पृ