________________
४३
स्थाहादमञ्जरी। त्तासामान्ययोगः स्याद्भवेत् न सर्वेषु तेषामेषी वाचोयुक्तिः सदिति यतो ट्रव्यगुणकर्मसु सा सत्ता इति वचनात् यत्र व सत्प्रत्ययस्तत्व सत्ता सत्प्रत्ययश्च द्रव्यगुणकर्मस्व वातस्तेष्वेव सत्तायोगः सामान्यादिपदार्थत्रये तु न तदभावात् इदमुक्तं भवति यद्यपि वस्तुस्वरूपमस्तित्वं सामान्यादित्रयेऽपि विद्यते तथा पि तदनुत्तिप्रत्ययहेतु न भवति य एव चानुवृत्तिप्रत्ययः स एव सदितिप्रत्यय इति तदभावा न्न सत्तायोगस्तत्र ट्रव्यादौनां पुनस्त्रयाणां षट्पदार्थसाधारणं वस्तुस्वरूपमस्तित्वमपि विद्यते आनुत्तिप्रत्ययहेतुः सत्तासम्बन्धोऽप्यस्ति निःस्वरूपे शशविषाणादौ सत्तायाः समवायाभावात् सामान्यादित्रिके कथं नानुत्तिमत्यय इति चेत् बाधकसद्भावादिति ब्रूमः तथा हि सत्तायामपि सत्तायोगाङ्गीकारेऽनवस्था विशेषेषु पुनस्तदभ्युपगमें व्यारतिहेतुत्वलक्षणतत्वरूपहानिः समवाये तत्कल्पनायां सम्बन्धाभावः केन हि सम्बन्धेन तत्र ससा सम्बध्यते समवायान्तराभावात् तथा च प्रामाणिकप्रकाण्डमुदयनः।
व्यते रभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः । रूपहानिरसम्बन्धी जातिबाधकसंग्रहः ॥ इति
तत: स्थितमेतत्सतामपि स्यात् कचिदेव सत्तेति तथाचैतन्यमित्यादि चैतन्यं ज्ञानमात्मनः क्षेत्वज्ञादन्य दमन्तव्यमतिरिक्तम् असमासकरणादत्यन्तमिति लभ्यते अत्यन्तभेदे सति कथमात्मनः सम्बन्धि ज्ञानमिति