________________
४२
स्वादादमञ्जरी ।
च प्रशस्तकारः अन्तेषु भवा अन्त्याः खाश्रयविशेषकत्त्वाद्विशेषाः विनाशारम्भरहितेषु नित्यद्रव्येष्वगवाकाशकालदिगात्ममनस्म प्रतिद्रव्यमेकैकशो वर्त - माना अत्यन्तव्यातिबुद्धिहेतवः यथा अस्मदादीनां गवादिष्वखादिभ्यस्तुल्याकृतिगुणक्रिया वययोपचयात्रयवविशेषसंयोगनिमित्ता प्रत्ययव्यावृत्ति ईष्टा गौः शुक्लः शीघ्रगति: पोन: ककुद्मान् महाघण्ट इति तथामद्दिशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनःसु चान्यनिमित्तासंभवात् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽ यं विलक्षणो ऽयमितिप्रत्ययव्यावृत्ति देशकालविप्रकृष्टे च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति तेऽन्त्या विशेषा इति अभी च विशेषरूपा एव न तु द्रव्यत्वादिव त्सामान्यविशेषोभयरूपा व्यावृत्ते रेव हेतुतात् तथा अयुतसिद्धानामाधार्याधारभूतानामिह प्रत्यय हेतु: संबन्धः समवाय इति अयुतसिद्धयोः परस्परपरिहारेण पृथगाश्रयानाश्रितयोराश्रयाश्रयिभाव इह तन्तुषु पट इत्यादेः प्रत्ययस्यासाधारणं कारणं समवायो यद्दशात् स्वकारणसामर्थ्यादुपजायमानं पटादाधार्यं तत्वाद्याधारे सम्बध्यते यथा छिदिक्रिया छेद्येनेति सोऽपि द्रव्यादिलक्षण वैधर्म्यात् पदार्थान्तरमिति षट्पदार्थाः सांप्रतमक्षरार्थो व्याक्रियते सतामपौत्यादि सतामपि सद्बुद्धिवेद्यतया साधारणानामपि षणां पदार्थानां मध्ये क्वचिदेव केषु चिदेव पदार्थेषु स