________________
स्थाबादमञ्जरौ। न संविदानन्दमयी च मुक्तिः सुसूत्रमासूचितमत्वदीयैः ॥८॥
वैशेषिकाणां द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षट्पदार्था स्तत्वतयाऽभिप्रेता स्तन पृथिवी आप स्ते जो वायु राकाश: कालो दिग आत्मा मन इति नव द्रव्याणि गुणा चतुर्विंशति स्तद्यथा रूपरसगन्धस्पर्शसंख्यापरिमाणानि पृथकं संयोगविभागौ परत्वापरत्वे बुद्धिः सुखदुःखे इच्छादेषो प्रयत्न श्चेति सूत्रोक्ताः सप्तदश चशब्दसमुच्चिताश्च सप्त द्रवत्वं गुरुत्वं संस्कारः स्ने हो धर्माधौं शब्दश्चेत्येवं चतुर्विशति गणा: संस्कारस्य वेगभावनास्थितिस्थापकभेदा त्वेविध्येऽपि संस्कारत्त्वजात्यपेक्षया एकत्वा च्छोयौदार्यादीनां चाव वान्तर्भावा नाधिक्यं कर्माणि पञ्च तद्यथा उत्क्षेपण मवक्षेपण माकुञ्चनं प्रसारणं गमनं ग. मनग्रहणाट् भ्रमणरेचनस्यन्दनाद्यविरोध: अत्यन्तव्या वृत्तानां पिण्डानां यत: कारणादन्योन्यस्वरूपानुगमः प्रतीयते तदनुत्तिप्रत्यय हेतुः सामान्यं तच विविध परम परं च तव परं सत्ता भावो महासामान्य मितिचोच्यते द्रव्यत्वाद्यवान्तरसामान्यापेक्षया महाविषयत्वात् अपरसामान्यं च द्रव्यत्वादि एतच्च सामान्यवि. शेष इत्यपि व्यपदिश्यते तथा हि द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वा सामान्यं गुणकर्मभ्यो व्यावृत्तत्वा विशेषः ततः कर्मधारये सामान्यविशेष इति एवं द्रव्यताप