________________
स्थाद्वादमञ्जरौ। तेन साई संबन्धोऽस्त्ये वान्यथा निःस्वभावतात शश विषाणवदवस्तुत्वमेव भवेत् ततश्च दूह समवाये समवायत्त्व मित्युल्लेखन इहप्रत्ययः समवायेऽपि युत्या घटत एव ततो यथो पृथिव्यां पृथिवौत्वं समवायेन समवेतं समवायेऽपि समवायत्त्व मेवं समवायान्तरेण संबन्धनीयं तदप्य परेणेत्येवं दुस्तरा ऽनवस्था महानदी एवं समवायस्यापि समवायत्त्वाभिसम्बन्धे युक्त्या उपपादिते साहसिक्यमालम्ब्य पुनः पूर्वपक्षवादी वदति ननु पृथिव्यादीनां पृथिवीत्वाभिसम्बन्धनिबन्धनं समवायो मुख्य स्तन त्वतलादिप्रत्ययाभिव्ययस्य संगृहीतसकलावान्तरजातिलक्षणव्यक्तिभेदस्य सामान्यस्योगवादि ह तु समवायस्यैकत्वेन व्यक्तिभेदाभावे जाते रनुइतत्त्वागौणोऽयं युमत्परिकल्पित इहेतिप्रत्ययसाध्यः समवायत्वाभिसम्बन्ध स्तत्साध्य श्च समवाय इति तदेत न्न चेतश्चमत्कारकारणं यतोऽत्रापि जाति :शवन्ती केन निरुध्येत व्यक्ते रभेदेनेति चेन्न तत्तदवच्छेदकवशा त्त दोपपत्ती व्यक्तिभेदकल्पनाया दुर्निवारत्त्वा दन्यो हि घटसमवायोऽन्यश्च पटसमवाय इति व्यक्त एव समवायस्यापि व्यक्तिभेद इति ततसिद्धौ सिद्ध एव जात्युझवस्तस्मादन्यत्रापि मुख्य एव समवाय इह प्रत्ययस्योभयत्रापि अव्यभिचारात् तदेत त्सकलं सपूर्वपक्षं समाधानं मनसि निधाय सिद्धान्तवादी प्राह न गौणभेद इति गौण इति योऽ