________________
स्याहादमञ्जरी। घटाश्रिताः पाकजरूपादयो धर्माः समवायसंबन्धन समवेता स्तथाकिं न पटेऽपि तस्यैकत्वनि त्यत्त्वव्यापक
वैः सर्वत्र तुल्यत्त्वात् यथाऽऽ काश एको नित्यो व्यापक अमूर्तश्च सन् सर्वैः सम्बन्धिभि यंगपदविशेषेण संबध्यते तथा किं नायमपीति विनश्यदेकवस्तुसमवायाभावे च समस्त वस्तुसमवायाभोवः प्रमज्यते तत्तदवच्छेदकभेदा न्नाय दोष इति चेदेव मनित्यत्त्वापत्तिः प्रतिवस्तखभावभेदादिति अथ कथं समवायस्य न ज्ञाने प्रतिभासनं यत स्तस्ये हे तिप्रत्यय: सावधानं साधनं इह प्रत्यय श्चानुभवसिद्ध एव इह तन्तुषु पट इहात्मनि ज्ञान मिह घटे रूपादय इति प्रतीतेरुपलम्मात् अस्य च प्रत्ययस्य केवलधर्मधर्नानालम्बनत्वादस्ति समवायाख्यं पदार्थान्तरं तद्धेतुरिति पराशङ्का मभिसन्धाय पुनराह दूहेदमित्यस्ति मतिश्च वृत्ताविति इहेदमिति इहेदमिति आश्रयाश्रयिभावहेतुक इह प्रत्ययो वृत्तावप्यस्ति समवायसंबन्धेऽपि विद्यते चशब्दोऽपिशब्दार्थ स्तस्य च व्यवहितसम्बन्ध स्तथैव च व्याख्यातं इदमत्र हृदयं यथा त्वन्मते पृथिवीत्वाभिसंबन्धा त्पृथ्वी तत्र पृथिवीत्वं पृथिव्या एव स्वरूपमस्तित्त्वाख्यं नापरं वस्त्वन्तरं तेन स्वरूपिगौव समं योऽसावभिसम्बन्धः पृथिव्याः स एव समवाय इत्युच्यते "प्राप्तानामेव प्राप्तिः समवाय"इति वचनात् एवं समवायत्वाभिसम्बन्धा त्समवाय इत्यपि किं न कल्प्यते यत स्तस्यापि य त्समवायतं स्वस्वरूपं