________________
३३
स्थाबादमञ्जरौ। चरं चैदिरचयति तदा जगदपप्लवकरणखेरिणः पश्चादपिकर्तव्यनिग्रहान् सुरवैरिण एतदधिक्षेपकारिण चारमदादीन् किमर्थं मुजतीति तन्नायं सर्वज्ञः तथा स्ववशत्वं स्वातन्त्र्य तदपि तस्य न क्षोदक्षम स हि यदि नाम स्वाधीन: सन् विश्वं विधत्ते परमकारुणिक श्च त्वया वर्ण्यते तत्कथं सुखिदुःखिताद्यवस्थाभेदबन्द स्थपुटितं घटयति भुवनमेकान्तशमसम्पत्कान्तमेव तु किं न निर्मिमौते अथ जन्मान्तरो पार्जिततत्तत्तदीयशुभाशुभकर्मप्रेरितः संस्तथा करोतौति दत्तस्तर्हि ववशत्वीय जलाञ्जलिः कर्मजन्ये च त्रिभुवनवैचित्र्य ऽपि विशिष्ट हेतुकविष्टपसृष्टिकल्पनायाः कष्टैकफलत्वा दस्मन्मतमेवाङ्गीकृतं प्रेक्षावता तथा चायातोऽयं घहकुट्यां प्रभातमिति न्याय: किं च प्राणिनां धर्माधर्मावपेक्षमाण चेदयं सृजति प्राप्तं तहि यदयमपेक्षते त न्न करोतीति न हि कुलालो दण्डादि करोति एवं कर्मापक्ष श्चेदीश्वरी जगत्कारणं स्या त्तहि कर्मणीश्वरत्वमीश्वरोऽनौश्वरःस्यादिति तथा नित्यत्वमपि तस्य वराह एव प्रणिगद्यमानं हृद्यं स खलु नित्यत्वेनैकरूपः सन् त्रिभुवनसर्गस्वभावोऽतत्स्वभावो वा प्रथमविधायां जगन्निर्माणात् कदा चिद पि नोपरमेत् तदुपरमे तत्स्वभावत्वहानि: एवं च सर्गक्रियाया अपर्यवसानादेकस्यापि कार्यस्य न सृष्टिः घटो हि स्वारम्भक्षणा दारभ्य परिसमाप्तेरुपान्त्यक्षणं याव निश्चयनयाभिप्रायेण न घटव्यपदेशमासादयति ज