________________
स्याद्वादमञ्जरौ ।
षट्शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्न्यूनानि पशुभि स्त्रिभिः ॥ १ ॥
तथा “अग्नीषोमीयं पशुमालभेत ""सप्त दशप्राजापत्यान् पशूनालभेते" त्यादिवचनानि कथमिव न पूर्वापरविरोधमनुरुध्यन्ते तथा ऽनृतभाषणं प्रथमं निविध्य " नानृतं ब्रूयादि" त्यादिनापश्चाद् "ब्राह्मणार्थ” इत्यादि ।
३२
तथा
न मर्म युक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चान्नृतान्याहु रपातकानि ॥ १ ॥ तथा श्रदत्तादानमनेकधा निरस्य पश्चादुक्तं यद्यपि ब्राह्मणो हठेन परकीयमादत्ते बलेन वा तथापि तस्य नादत्तादानं यतः सर्वमिदं ब्राह्मणेभ्यो दत्तं ब्राह्मणानां तु दौर्बल्याद्दृषला: परिभुञ्जते तस्मादपहरन् ब्राह्मणः खमादते खमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददातीति " श्रपुत्रस्य गति र्नास्ति” इति लपित्त्वा ॥
अनेकानि सहस्राणि कुमारब्रह्मचारिणां । दिवं गतानि विप्राणा मकृत्वा कुलसन्ततिम् ॥ १॥ इत्यादि कियन्तो वा दधिमाषभोजनात् कृपणा विवेच्यन्ते तदेवमागमो ऽपि न तस्यसर्वज्ञतां वक्ति किं च सर्वज्ञः सन्नसौ चरा