________________
स्थाहादमञ्जरी।
२६
तु सङ्कल्पमावेणैव कार्यकल्पनायां नियतदेशस्थायित्वेपि न किञ्चिद्दूषणमुत्यश्याम: नियतदेश स्थायिनां सामान्यदेवानामपि सङ्कल्पमावणैव तत्तत्कायसम्पादनप्रतिपत्तेः किं च तस्य सर्वगतत्वेऽङ्गीक्रियमाणेऽशचिषु निरन्तरसन्तमसेषु नरकादिस्थलेष्वपि तस्य त्तिः प्रसज्यते तथा चानिष्टापत्तिः अथ युष्मत्पतेऽपि यदा ज्ञानात्मना सर्वजगत्त्रयं व्यापोतीत्यु व्यते तदा ऽशुचिरसाखादादीनामप्युपलम्भसम्भावनान्नरकादिदुःखस्वरूपसम्वेदनात्मकतया दुःखानुभवप्रसङ्गा चानिष्टापत्ति स्तुल्यैवेति चेत् तदेतदुपपत्तिभिः प्रतिकत स्य धलिभिरिवावकरणम् । यतो जानमप्राप्यकारि खस्थलस्थमेव विषयं परिच्छिनत्ति न पुनस्तन गत्वा तत् कुतो भवटुपालम्भः समीचौनः नहि भवतोऽप्पशुचितानमात्रेण तद्रसावादानुभूतिस्तद्भावे हि सकचन्दनाङ्गनारसवत्यादिचिन्तनमावेणैव टप्तिसिद्धौ तत्प्राप्तिप्रयत्नवैफल्यप्रसक्तिरिति यत्तु ज्ञानामना सर्वगतत्त्वे सिद्धसाधनं प्रागुक्तं तच्छक्तिमात्रमपेक्ष्य मन्तव्यं तथा च वक्तारो भवन्ति अस्य मतिः सवंशास्त्रेषु प्रसरति इति न च ज्ञानं प्राप्यकारि तस्यात्मधर्मत्वेन बहिर्निर्गमाभावाद बहिर्निर्गमे चात्मनो ऽचैतन्यापत्या अजीवत्त्वप्रसङ्गः न हि धर्मो धर्मिणमतिरिच्य वचन केवलो विलोकितो यच्च परे दृष्टान्तयन्ति यथा सूर्यस्य किरणा गुणरूपा अपि सूर्या न्निकम्य भुवनं भासयन्त्येवं जानमप्यात्मनः सकाशाद