________________
स्याद्वादमञ्जरी ।
दिभ्योऽविशिष्यमाणतया सकलशक्तिविरहरूपत्वान्नार्थ कियानिवर्तनचमत्वं तदभावाच्च न वस्तुत्वं यटेवार्थकियाकारि तदेव परमार्थसदिति वचनात् वर्तमानक्षणालिङ्गितं पुनर्वस्तुरूपं समस्ताार्थक्रियासु व्याप्रियत इति तदेव पारमार्थिकं तदपि च निरंशमभ्युपगन्तव्यम् अंशव्याप्तेर्युक्तिरिक्तत्त्वात् एकस्यानेकखभावतामन्तरेणानेक खावयवव्यापनायोगात् अनेखभावतैवास्त्विति चेन्न विरोधव्याघ्राघ्रातत्त्वात् तथा हि यदाकः स्वभावः कथमनेकोऽनेकश्चेत्कथमेक एकानेकयोः परस्परपरिहारेणावस्थानात्तस्मात्खरूपनिमग्नाः परमाणव एव परस्परोपसर्पणद्वारेण कथंचिन्निचयरूपतामापन्ना निखिलकार्येषु व्यापारभाज इति त एव स्वलक्षणां न स्थूलतां धारयत् पारमार्थि - कमिति एवमसाभिप्रायेण यदेव सुकौयं तदेव वस्तुन परकीयम् अनुपयोगित्वादितिशब्दस्तु रूढितो याव न्तो ध्वनयः कस्मिंश्चिदर्थे प्रवर्तन्ते यथेन्द्रशकपुरन्दरादयः सुरपतौ तेषां सर्वेषामप्येकमर्थमभिप्रेति किल मृतौतिवशादाथाशब्दाव्यतिरेकोऽर्थसा प्रतिपादाते तथैव तस्यैकत्त्वं वा प्रतिपादनीयं न चेन्द्रशक्रपुरन्दरादयः पर्यायशब्दा विभिन्नार्थ वाचितया कदा चन प्रतीयन्ते तेभ्यः सर्वदैकाकार परामर्शोत्पतेरस्खलितवृत्तितया तथैव व्यवहारदर्शनात् तस्मादेक एव पर्यायशब्दानामर्थ इति शब्द्यते श्रयतेऽनेनाभिप्रायेणार्थं इति निरुक्तादेकार्थप्रतिपादना
२० ८०