________________
स्थाहादमञ्जरौ। १९६ न्यरूपतया विश्वमुपादत्त एतच्च सामान्यैकान्तवादे प्राप्रपञ्चितं व्यवहारस्त्वेवमाह यथा लोकग्राहमेव वस्त्वस्तु किमनया अदृष्टाव्यवह्रियमाण वस्तुपरिकल्पनकष्टपिष्टिकया यदेव च लोकव्यवहारपथमवतरति तस्यैवानुग्राहकं प्रमाणमुपलभ्यते नेतरसा न हि सामान्यमनादिनिधनमेकं संग्रहाभिमतं प्रमागाभूमिस्तथानुभवाभावात् सर्वसा सर्वदर्शित्वप्रसङ्गाच नापि विशेषाः परमाणु लक्षणा: क्षणक्षयिणः प्रमाणगोचरास्तथाप्रवृत्तेरभावात् तस्मादिदमेव निखिललोकाबाधितं प्रमाणप्रसिद्ध कियत्कालभावि स्थलतामाविम्वाणमद काद्याहरणाद्यर्थक्रियानिवर्तनक्षम वस्तुरूपं पारमार्थिक पूर्वोत्तरकालभावि तत्पर्यायपर्यालोचना पुनरज्यायसो तव प्रमाणप्रसराभावात् प्रमाणमन्तरेण विचारमा कर्तुमशक्यत्वात् अवस्तुत्वाच तेषां किं तगोचरपर्यालोचनेन तथा हि पूर्वो
सरकालभाविनी द्रव्यविवर्ताः क्षणक्षयिपरमाणलक्षणा वा विशेषा न कथं चन लोकव्यवहारमुपरचयन्ति त न ते वस्तरूपा: लोकव्यवहारोपयोगिनामेव वस्तुत्वादत एव पन्थाः गच्छति कुण्डिका स्रवति गिरिदह्यते मज्वाः क्रोशन्तीत्यादिव्यवहाराणां पामागयं तथा च वाचक मुख्यः “लौकिकसम उपचार: पायो विस्तार्थो व्याहार"इति ऋजुसत्र: पुनरिदं मन्यते वर्तमानक्षगाविवत्येव वस्तुरूपं नातीतमनागतं च अतीतस्य विनष्टत्वादनागतस्यालब्धात्मलाभत्वात्खरविषाणा