________________
१६८
साहादमञ्जरी ।
घमं नयस्वरूपं तदनधिगमें दुर्नयस्वरूपस्य दुष्परि ज्ञानत्वादव चाचार्येण प्रथमं दुर्नयनिर्देशो यथोत्तरं प्राधान्यावबोधनार्थः कृतः तव प्रमाणप्रतिपन्नार्थंकदेशपरामर्शो नयः अनन्तधर्माध्यासितं वस्तु स्वाभि प्रेतैकधर्मविशिष्टं नयति संवेदनकोटिमारोहयतौति नयः प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थः नयाश्चानन्तानन्तधर्मत्वादस्तु न स्तदेकधर्मपर्यवसितानां वक्तुरभिप्रायाणां च नयत्वात् तथा च वृद्धा: " जाव ई याव पण पहा तावईयाचे बहुन्ति नयवाया" इति । तथापि चिरन्तनाचार्यैः सर्वसंग्राहि सप्ताभिप्राय परिकल्पनाद्दारेण सप्तनयाः प्रतिपादितास्तदाथा नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरुदैर्वभूता इति कथमेषां सर्वसंग्राहकत्त्वमिति चेदुच्यते अभिप्रायस्तावदर्थ द्वारेण शब्दद्दारेण वा प्रवर्तते गत्यन्तराभावात् तत्र ये के चनार्थनिरूपणप्रवणाः प्रमात्रभिप्रायास्ते सर्वेऽप्यादे नयचतुष्टयेऽन्तर्भवन्ति ये च शब्दविचारच - तुरास्ते शब्दादिनयत्रय इति तत्र नैगमः सत्तालक्षणं महासामान्यमवान्तरसामान्यानि च द्रव्यत्त्वगुणत्वकर्मत्वादीनि तथान्त्यान्विशेषान्म कला साधारणरूपलक्षणानवान्तरविशेषांश्चापेक्षया पररूपव्यावर्त्तनक्षमान् सामान्यादत्यन्तविनि लुठित स्वरूपानभिप्रैति इदं च खतन्त्रसामान्यविशेषवादे नुस्खमिति न पृथकप्रयत्नः प्रवचन प्रसिद्ध निलयनप्रस्थदृष्टान्तद्दयगम्यस्वायं संग्रहस्तु अशेषविशेषतिरोधानद्वारेण सामा