________________
स्याहादमञ्जरौ।
१६ बकारणत्त्ववचनात्संयोगविभागाविति नित्यानित्यपक्षयोः सम्बलितत्वं एतच्च लेशतो भावित मेवेति प्रलापप्रायत्त्वं च परवचनानामित्थं समर्थनीयं वस्तुनस्ताबदर्थक्रियाकारित लक्षणं तच्चैकान्तनित्यानित्यपक्षयोनं घटते अप्रच्युतानुत्पन्नस्थिरैकरूपो हि नित्यः स च क्रमेणार्थक्रियां कुर्वीत अक्रमेण वा अन्योन्यव्यवच्छेदरूपाणां प्रकारान्तरासम्भवात् तत्र न तावत्क्रमेण स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् समर्थस्य कालचेपायोगात कालक्षेपिणो वा ऽसामर्थ्यप्राप्तेः समर्थोऽपि तत्तत्महकारिसमवधाने तं तमथंकरोतीति चेन्न तहि तस्य सामयमपरसहकारि सापेनत्तित्वात् सापेक्षमसमर्थमिति न्याया न तेन सहकारिणोऽपेक्ष्यन्तेऽपि तु कायमेव सहकारिष्वसत्स्वभवत् तानपेक्षते इति चेत्तत् किं स भावोऽसमर्थ: समर्थो वा समर्थचे किं सहक रिमुखप्रेक्षणदीनानि तान्यपेक्षते न पुन झटिति घटयति ननु समर्थमपि बीज मिलोजलानिलादिसहकारिसहितमेवारं करोति नान्यथा तत् किं तस्य सहकारिभिः किञ्चिदुपक्रियेत न वा यदि नोपक्रियेत तदा सहकोरिसन्निधानात्यागिव किं न तदाप्यर्थक्रियायामुदास्ते उपक्रियेत चे त्स तर्हि तैरुपकारोऽभिन्नो भिन्नो वा क्रियत इति वाच्यम् अभेदे स एवं क्रियत इति लाभमिच्छतो मूलक्षतिरायाता कृतकत्त्वेन तस्यानित्यत्वापत्तेः भेदे तु स कथं त-.