________________
१८४
स्थाहादमञ्जरी। सत्त्वं परिहृत्य वर्तते स्वरूपेणाप्यसत्वप्राप्तेस्तथा च निरुपाख्यत्वात्सर्वशून्यतेति तदा हि विरोधः स्याद्योकोपाधिकं सत्त्वमसत्त्वं च स्यात् न चैवं यतो न हि येनैवांशन सत्वं तेनैवासत्त्वमपि कित्व न्योपाधिक सत्त्वमन्योपाधिकं पुनरसत्त्वं स्वरूपेण हि सत्त्वं पररूपेणचासत्वं दृष्टं हि एकस्मिन्नेत्र चित्रपटावयविनि अन्योपाधिकं तु नौलत्वमन्योपाधिकाश्चेतरेवर्णा नीलत्वं हि नीलौरागाद्यपाधिकं वर्णान्तराणि च तत्तञ्जनद्रव्योपाधिकानि एवं मेचकरत्नेऽपि तत्तह. ण पुनलोपाधिकं वैचित्र्यमवसेयं न चैभिदृष्टान्तैः सत्त्वासत्त्वयोभिन्नदेशत्वप्राप्तिश्चित्रपटाद्यवयविन एकत्वात्तत्रापि भिन्नदेशत्वासिद्धेः कथंचित्पक्षस्तु दृष्टान्ते दासन्तिके च स्याहादिनां न दुर्लभः एवमप्यपरितोषवेदायुष्मतस्तोकस्यैव पुंसस्तत्तदुपाधिभेदापिटत्वपुत्रत्वमातुलत्वमागिनेयत्वपिटव्यत्वचाटव्यत्वादिधर्माणां परस्परविरुड्डानामपि प्रसिद्धिदर्शनात् किं वाच्यम् एवमवक्तव्यत्वादयोऽपि वाच्याः इत्युक्तप्रकारेण उ. पाधिभेदेन वास्तवं विरोधाभावमप्रबुद्ध्वैवाजात्वैव एवकारोऽवधारणे स च तेषां सम्पगत्तानस्याभाव एव न पुनर्लेशतोऽपि भाव इति व्यनक्ति ततस्ते विरोधभीताः सत्त्वासत्त्वादिधर्माणां बहिर्मुखशेमुष्यासंभावितो यो विरोधः सहानवस्थानादिस्तस्माद्भौतासस्तमानसा अत एव जडास्ताविकभयहेतोरभावेऽपि तथाविधपशुवगौतत्वान्मूर्खाः परवादिनस्तदेकान्त