________________
१८५
स्याबादमजरौ। हतास्तेषां सत्त्वादिधर्माणां य एकान्त इंतरधर्मनिषेधनेन वाभिप्रेतधर्मव्यवस्थापननिश्चयस्तेन हता व हताः पतन्ति स्खलन्ति पतिताश्च सन्तस्ते ऽन्यायमार्गाक्रमणेनासमर्था न्यायमार्गाध्वनीनानां च सर्वेषामप्याकमग्रौयतां यान्तीति भावः यहा प्रतन्तीति प्रमाणमार्गतशच्यवन्ते लोके हि सन्मार्ग च्युतः पतित इति परिभाष्यते अथ वा यथा बज्वादिप्रहारेण हत: पतितो मूमितुच्छामासाद्य निरुद्धवाप्रसरो भवति एवं तेऽपि वादिनः स्वाभिमतैकान्तवादेन युक्तिसरणिमननुसरन्तो वज्जाशनिप्रायेण निहताः सन्तः स्याहादिनां पुरतो किंचित्करा वामाबमपि नोवारयितुमीशत इति अत्र च विरोधस्योपलक्षणत्वादेथाधिकरण्यमनवस्था संकरो व्यतिकरः संशयो प्रतिपत्तिविषयव्यवस्थाहानिरित्येतेऽपि परोझाविता दोषा अभ्यूह्यास्तथाहि सामान्यविशेषात्मकं वस्त्वित्युपन्यस्ते परे उपालब्धारो भवन्ति यथा सामान्यविशेषयोर्विधिप्रतिषेधरूपयोरेकनाभिन्ने वस्तुन्यसंभवाच्छीतोष्णवदिति विरोधः न हि यदेव विधरधिकरणं तदेव प्रतिषेधस्याधिकरणं भवितुमर्हति दाभ्यां वा खभावाभ्याम् एकेनैव चेत्तव पूर्ववहिरोध: दाभ्यां वा खभावाभ्यां सामान्यविशेषाख्य स्वभावदयमधिकरोति तदाऽनवस्था तावपि स्वभावान्तराभ्यां तावपि स्वभावान्तराज्यामिति येनात्मना सामान्यस्याधिकरणं तेन सामान्यस्य विशेषस्य च येनच विशेषस्या