________________
स्याद्वादमञ्जरौ ।
इति प्रथमो भङ्गः स्यात्कथंचिन्नास्त्येव कुम्भादि: स्वद्रव्यादिभिरपि वस्तुनोऽसत्वानिष्टौ हि द्रव्यादिभिरिव पर प्रतिनियत स्वरूपाभावात् वस्तुप्रतिनियतिन स्यात् न चास्तित्वैकान्तवादिभिरव नास्तित्वमसिद्धमिति वक्तव्यं कथं चित्तस्य वस्तुनि युक्तिसिद्धत्वात्साधन वत् न हि क्वचिदनित्यत्वादौ साध्ये सत्वादिसाधनस्यास्तित्वं विपक्षे नास्तित्वमन्तरेणोपपन्नं तस्य साधनत्वाभावप्रसङ्गात् तस्माद्दस्तुनोऽस्तित्वं नास्तित्वेनाविनाभूतं नास्तित्वं च तेनेतिविवक्षात्रशाज्ञानयोः प्रधानोपसर्जन भावः एवमुत्तरभङ्गेष्वपि ज्ञेय "मपितानपि तमिद्धेरिति वाचकवचनात् इति द्वितीयः तृतीयः स्पष्ट एव द्वाभ्यामस्तित्वनास्तित्वत्रर्माभ्यां युगपत्प्रधानतयाऽपि ताभ्यामेकस्य वस्तुनोऽभिधित्मायां तादृशस्य शब्दस्यासम्भवादवक्तत्र्यं जीवादिवस्तु तथा हि सदसत्त्वगुणद्दयं युगपदेकत्र सदित्यनेन वक्तुमशत्र्यं तस्यासत्त्वप्रतिपादनासमर्थत्वात् तथाऽसदित्यनेनापि तस्य सत्त्वप्रत्यायनसामर्थ्याभावात् न च पुष्पदन्तादिवत्साङ्केतिकमेकं पदं तदतुं समर्थ तस्यापि क्रमेणार्थप्रत्यायने सामर्थ्योपपत्तेः शतशानयोः संकेतितसच्छन्दवत् अत एव इन्दकर्मधारयटत्योर्वाक्यस्य वचनाद्वाचकत्वमिति सकलवाचकरहितत्वादवक्तव्यं वस्तु युगपत्सत्त्वासत्त्वा भ्यां प्रधानभावापिताभ्यामाक्रान्तं व्यवतिष्ठते न च सर्वथाऽ वक्तव्यमत्रक्तव्यशब्देनाप्यन भिधेत्वप्रसङ्गादिति चतुर्थः शेषास्त्रयः
१७८