________________
स्थाबादमञ्जरी।
१७८ सुगमाभिपायाः न च वाच्यम् एकत्र वस्तुनि विधीयमाननिषिध्यमानाऽनन्तधर्माभ्युपगमेनानन्तभङ्गौपसङ्गादसङ्गतैव सप्तभङ्गीति विधिनिषेधपकारापेक्षया पतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गीनामेव सम्भवात् यथा हि सदसत्त्वाभ्यामेवं सामान्यविशेषाभ्यामपि सप्तभयेर स्यात् तथा हि स्यात्मामान्यं स्यादिशेषः स्यादुभयं स्यादवक्तव्यं स्यात्सामान्यावतव्यं स्याहिशेषावक्तव्यं स्यात्सामान्यविशेषावक्तव्यमिति न चात्रविधिनिषेधपकारौ न स्त इति वाच्यं सामान्यस्य विधिरूपत्वाविशेषस्य च व्यारत्तिरूपतया निषेधात्मकत्वात् अथ वा पतिपक्षशब्दत्वाद्यदा सामान्यस्य पाधान्यं तदा तस्य विधिरूपता विशेषस्य च निषेधरूपता यदा विशेषस्य पुरस्कारस्तदा तस्य विधिरूपता इतरस्स च निषेधरूपता एवं सर्वत्र योज्यम् अतः सुष्ठतम् अनन्ता अपि सप्त भङ्गा एव सम्भवेयुरिति पुतिपर्यायं पतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात्तेषामपि सप्तविधतत्तज्जितासानियमात् तस्या अपि सप्तविधत्वं सप्तधैव तत्संदेहसमुत्पादात् तस्यापि सप्तविधत्व नियमः खगोचरवस्तधर्माणां सप्तविधत्त्वस्यैवोपपत्तेरिति इयं सप्तभङ्गी प. तिभङ्ग सकलादेशस्वभावा विकलादेशस्वभावा च तत्र सकलादेशः प्रमाणवाक्य तल्लक्षणं चेदं प्रमाणपतिपन्नानन्तधर्मात्मकवस्तुन: कालादिभिरभेदष्टत्ति प्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपा