________________
१७७
स्वादादमञ्जरी । ल्पनया युगपद्दिधिनिषेधकल्पनया च षष्ठः स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपद्दिधिनिषेधकल्पनया च सप्तमः तत्र स्यात्कथंचि त्वद्रव्य क्षेत्र कालभावरूपेणास्त्येव सर्वं कुम्भादि न पुनः परद्रव्यक्षेत्रकालभावरूपेण तथा हि कुम्भो द्रव्यतः पार्थिवत्वेनास्ति नाबादिरूप - त्वेन क्षेत्रतः पाटलिपुत्रकत्वेन न कान्यकुब्जादित्वेन कालतः शिशिरत्वेन न वासन्तिकादित्वेन भावतः श्यामत्वेन न रक्तादित्वेन अन्यथेतररूपापच्या खरु - महानिप्रसङ्ग इति अवधारणं चात्र भङ्गेऽनभिमतार्थव्याष्टत्त्यर्थमुपात्तम् इतरथाऽनभिमततुल्यतैवास्य प्रसज्येत प्रतिनियत स्वार्थानभिधानात्तदुक्तम् ।
वाक्य ऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथाऽनुक्तसमत्वात्तस्य कुत्रचित् ॥
तथाप्यस्त्येव कुम्भ इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भाद्यस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राप्तः प्रतिनियतस्वरूपानुपपत्तिः स्यात् तत्प्रतिपत्तये स्थादिति शब्दः प्रयुज्यते स्यात्कथंचित्वद्रव्यादिभिरेवायमस्ति न परद्रव्यादिभिरपीत्यर्थः यत्रापि चासौ न प्रयुज्यते तवापि व्यवच्छेदफलैवकारवत् बुद्दिमह्निः प्रतीयत एव यदुक्तम् ।
सोऽप्रयुक्तोऽपि वा ततैः सर्ववार्थात्प्रतीयते । यथैवकारौ योगादिव्यवच्छेद प्रयोजनः ॥
२३