________________
१०६ स्याहादमञ्जरी। तुरेवकारार्थ: तुः स्याङ्देऽवधारणे इति वचनात् ततश्चैतेभ्यो मांसभक्षणादिभ्यो निवृत्तिरेव फला खर्गापवर्गफलपदा न पुन: पृष्टत्तिरपौत्यर्थ : अत एव स्थानान्तरे पठितम् ।
वर्षे वर्षे ऽश्वमेधन यो यजेत शतं समाः । मांसानि च न खादेद्यस्तयोस्तुल्यं भवेत्फलम्॥१॥ एकराबोषितस्यापि या गतिब्रह्मचारिणः । न सा क्रतुसहस्रेण पाप्तुं शक्या युधिष्ठिर ॥१॥
मद्यपाने तु कृतं सूत्रानुवादैस्तस्य सर्वविगहि तत्वात्तानेवंप्रकारानर्थान् कथमिव बुधाभासास्तौथि का वेदितुमर्हन्तौति कृतं प्रसङ्गेन अथ केमो सप्तभङ्गाः कश्चायमादेशभेद इत्युच्यते एकत्र जीवादी वस्तुनि एकैकसत्वादिधर्मविषयप्रवशादविरोधेन प्रत्यक्षादिवाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कत्वा स्याच्छन्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यास: सप्तभनौति गोयते तहथा स्वादस्त्येव सर्वमिति विधिकल्प नया प्रथमो भङ्गः स्यान्नारत्येव सर्वमिति निषेधकल्पनया द्वितीयः स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया टतीयः स्यादवक्तव्यमेवेति युगपहिधिनिषेधकल्पनया चतुर्थः स्यादस्त्येव स्यादवक्तव्य मेवेति विधिकल्यनया युगपहिधिनिषेधकल्पनया च पञ्चमः स्याम्नास्त्येव स्यादवक्तव्यमेवेति निषेधक