________________
१७४
स्थाहादमञ्जरी। दुपदेशानुसारिप्रवृत्तितया मिथ्याश्रुतोक्तस्थाप्यर्थस्य यथावस्थितविधिनिषेधविषयतयोन्नयनात् तथा हि किल वेदे अजैयष्टव्यम् इत्यादिवाक्येषु मिथ्यादृशो ऽजशब्दं परावाचकतया व्याचक्षतेसम्यगढशस्तु जन्मापाय योग्यं त्रिवार्षिकं यवद्रोह्यादि पञ्चवार्षिकं तिलमसूरादि सप्तवार्षिक कङ्गसर्षपादि धान्यपर्यायतया पयवसाययन्ति अत एव च भगवता श्रीवईमानखामिना विज्ञानघन एवैतेश्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रत्यसंज्ञास्तीत्यादिका ऋचः श्रीमदिन्द्रभूत्यादीनां ट्रव्यगणधरदेवानां जौवादिनिषेधकतया प्रतिभासमाना अपि तावस्थापकतया व्याख्यातास्तथा स्मार्ता अपि ।
न मांसभक्षणे दोषो न मद्ये न च मैथुने । पटत्तिरेषा भूतानां निवृत्तिस्तु महाफला॥
इति श्लोकं पठन्ति अस्य च यथाथतार्थव्याख्यानेऽ संबद्धप्रलाप एव यस्मिन् हि अनुष्ठीयमाने दोषी नास्त्येव तम्मान्नित्तिः कथमिव महाफला भविष्यति ज्याध्ययनदानादेरपि निवृत्तिप्रसङ्गात् तस्मादन्यदैदंपर्यमस्य श्लोकस्य तथा हि न मांसभक्षणे कृतेऽ दोषो ऽपि तु दोष एवं मदामैथुनयोरपि कथं नादोष इत्याह यत: प्रत्तिरेषा भूतानां प्रवर्तन्त उत्पद्यन्ते ऽस्यामिति प्रत्तिरुत्पत्तिस्थानं भूतानां जीवानां ततज्जीवसं सक्ति हेतु रित्यर्थः प्रसिद्धं च मांसमद्यमैथु