________________
स्यादादमञ्जरौ |
१७३ नान्य इति काक्वावधारणावगतिः ननु श्रन्याभिधानप्रत्ययविषयाश्च पर्यायास्तत्कथमेकमेव वस्तूभयात्मकमित्याशङ्कां विशेषणहारेण परिहरति आदेशभेदेत्यादि आदेशभेदेन सकला देशविकला देशलक्षणेन आदेशयेन उदिताः प्रतिपादिताः सप्तसंख्याः भङ्गा वचनप्रकारा यस्मिन् वस्तुनि तत्तथा ननु यदि भगवता त्रिभुवनबन्धुना निर्विशेषतया सर्वेभ्य एवंविधं वस्तुतत्वमुपदर्शितं तर्हि किमर्थं तोर्घान्तरीयास्तव विप्रतिपदान्ते इत्याह बुधरूपवेदामिति बुध्यन्ते यथावस्थितं वस्तुतत्वं सारेतरविषयविभागविचारया इति बुधा उत्कृष्टा बुधा बुधरूपा नैसर्गिकाधिगभिकान्यतरसम्यग्दर्शनविशदीकृत ज्ञानशालिनः प्रागिनस्तैरेव विदितुं शक्यं वेदां परिवेद्यं न पुनः स्वस्वशास्त्रतत्त्वाभ्यासपरिपाकशाखानिशातबुद्धिभिरप्यन्यैस्तेषामनादिमिथ्यादर्शनवासनादूषितमतितया यथावस्थित वस्तुतत्वानवबोधेन बुधरूपत्वाभावात् तथा
चागमः ।
सदसदविसेसणाउ भवहेउ जहच्छिउवलंभाउ । जाणकलाभावाउ मिच्छिहिट्ठिम अन्नाणं ॥१॥
अत एव तत्परिगृहीतं द्वादशाङ्गमपि मिध्याश्रुतमामनन्ति तेषामुपपत्तिनिरपेक्षं यदृच्छया वस्तुत श्वोपलम्भनं संरम्भात् सम्यग्दृष्टिपरिगृहीतं तु मिथ्याश्रुतमपि सम्यक् श्रुततया परिणमते सम्यग्दृशां सर्ववि