________________
१७२
स्याद्वादमञ्जरी ।
कुमिष्यते तदा संक्षेपेणाभ्यन्तरीकृत सकल पर्याय निकायन्त्वलचणेनाभिधीयमानत्वात् पर्ययमित्युपदिश्यते केवलद्रव्यरूपमेवेत्यर्थः यथात्माऽयं घटोऽयमित्यादिपर्यायाणां द्रव्यानतिरेकात् श्रत एव द्रव्यास्तिकनयाः शुद्धसंग्रहादयो द्रव्यमात्रमेवेच्छन्ति पर्याया ग्रां तदविष्वग्भूतत्वात् पर्यवः पर्ययः पर्याय इत्यनथन्तिरम् अद्रव्यमित्यादि चः पुनरर्थे स च पूर्वस्मादिशेषद्योतने भिन्नक्रमश्च विविच्यमानं चेति विवेकेन पृथग्रूपतयोच्यमानं पुनरेतदस्तु अद्रव्यमेव अविवचितान्वयिद्रव्यं केवल पर्यायरूपमित्यर्थः यदाद्यात्मा ज्ञानदर्शनादीन् पर्यायानधिकृत्य प्रतिपर्यायं विचायेते तदा पर्याया एव प्रतिभासन्ते न पुनरात्माख्य किमपि द्रव्यम् एवं घटोऽपि कुण्डलोष्ठष्टयुबुवोदरपू
परादिभागाद्यवयवापेक्षया विविच्यमानः पर्याय एव न पुनर्घटाख्य' तदतिरिक्तं वस्तु अत एव पर्यायास्तिकनयानुपातिनः पठन्ति ।
भागा एव हि भासन्ते संनिविष्टास्तथा तथा । तहान्नैव पुनः कश्चिन्निर्भागः संप्रतीयते ॥ इति ततश्च द्रव्यपर्यायोभयात्मकत्वेऽपि वस्तुनो यनयार्पण्या पर्यायनयानर्पणया च द्रव्यरूपता पपर्यायनयार्पणया द्रव्यनयानर्पणया च पर्यायरूपता उभयनयार्पणया च तदुभयरूपता अत एवाह वाचकमुख्य: “अर्पितानर्पित सिद्धेरि" ति एवंविधं द्रव्यपर्यायात्मकं वस्तु त्वमेवादीदृशस्त्वमेव दर्शितवान्