________________
स्थाहादमञ्जरी। १७१ दानकातरतां विधतीति यावदेकैकं त्वदुपत्तं प्रमाणमन्ययोगव्यवच्छेदकमित्यर्थः अत्र प्रमाणानौति बहुवचनम् एवं जातीयानां प्रमाणानां भगवच्छासन आनन्त्यज्ञापनार्थम् एकैकस्य सूत्रस्य सर्वोदधिसलिलसर्वसरिद्वालुकानन्तगुणार्थत्वात् तेषां च सर्वेषामपि सर्वविन्मूलतया प्रमाणवादथ वा इतिवचनान्तागणस्य संसूचका भवन्तीति न्यायादितिशब्देन प्रमाणबाहुल्यसूचनात्पूर्वा. एकस्मिन्नपि प्रमाणे उपन्यस्ते उचितमेव बहुवचन मिति काव्यार्थः ॥ २२ ॥
अनन्तरमनन्तधर्मात्मकत्वं वस्तुनि साध्यं मुकुलितमुक्तं तदेवसप्तभङ्गौप्ररूपणदारेण प्रपञ्चयन् भगवतो निरतिशयं वचनातिशयं स्तुवन्नाह ।
अपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविचमानम् । आदेशभेदोदितसप्तभङ्गमदीहशस्त्वं बुधरूपवेद्यम् ॥२२॥
समस्य मानं संक्षेपेणोच्यमानं वस्त्वपर्ययम विवक्षितपर्यायं वसन्ति गुणाः पर्याया अस्मिन्निति वस्त धर्माधर्माकाशपुगलकालजौवलक्षणं द्रव्यषटकम् । अयमभिप्रायः यदैकमेव वस्तु अात्मघटादिकं चेतनाचेतनं सतामपि पर्यायाणामविवक्ष या द्रव्यरूपमेव व