SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ स्याद्वादमञ्जरौ | १७ त्पादव्यययो निराधारत्वप्रसङ्गः न च तयो योंगे नित्यत्वहानि: । द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क कदा केन किं रूपा दृष्टा मानेन केन वा ॥ १ ॥ इति वचनाल्लौकिकानामपि घटाकाशम् इति व्यवहाप्रसिद्ध राकाशस्य नित्यानित्यत्त्वं घटाकाशमपि हि यदा घटापगमें पटेनाक्रान्तं तदा पटाकाश मिति व्यबहारः न चायमौपचारिकत्वादप्रमाणमेव उपचार - स्यापि किञ्चित्माधर्म्यद्दारेण मुख्यार्थस्पर्शित्वात् नभसो हि यत्किल सर्वव्यापकत्वं मुख्य परिमाण - तदावेयघटपटादिसम्बन्धिनियतपरिमाणवशात्कल्पि तभेदं सत्प्रतिनियत देशव्यापितया व्यवक्रियमाणं घटाका पटाकाशादितत्तरपदेश निबन्धनं भवति ततद्घटादिसम्बन्धे च व्यापकत्त्व नावस्थितस्य व्योम्नोऽ बस्थान्तरापत्ति स्तत श्वावस्थाभेदेऽवस्थावतोऽपिभेदस्ता सां ततो विष्वग्भावादिति सिद्धं नित्यानित्यत्वं व्योम्नः स्वयंभुवोऽपि हि नित्यानित्यमेव वस्तु प्रपन्नास्तथा चोह स्ते त्रिविधः खल्वयं धर्मिणः परिणामो धर्मलचणावस्थारूपः सुवर्णं धर्मि तस्य धर्मपरिणामो वर्ड - मानरुचकादिः धर्मस्य तु लक्षणपरिणामोऽनागतत्वादिः यदा खल्वयं हेमकारो वर्द्ध मानकं भङ्का - चकमारचयति तदा वर्तमानको वर्तमानतालक्षण' हित्वा अतीततालक्षणमापद्यते रुचकस्तु अनागततालक्षणं हित्वा वर्तमानतामापद्यते वर्तमानतापन्न મૈં
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy