________________
स्याहादमञ्जरौ। १६३ ति कार्य "वयःशक्तिशील" इति शक्तौ शानविधानात ततश्चायमर्थोऽनुमानेन विना पराभिसंहितं सम्यग्वेदितुमशक्तस्येति एवं परबुद्धिज्ञानान्यथाऽनुपपत्याऽयमनुमानं हठादगीकारितस्तथा प्रकारान्तरेणाप्ययमगीकारयितव्यस्तथा हि चार्वाकः काश्चित् तानव्यक्तीः संवादित्वेनाव्यभिचारिणीरुपलभ्यान्याश्च विसंवादित्वेन व्यभिचारिणीः पुनः कालान्तरे तादृशीतराणां जानव्यक्तीनामवश्यप्रमागणेतरते व्यवस्थापयेत् न च सन्निहितार्थबलेनोत्पद्यमानं पूर्वापरपरामर्शशून्यं प्रत्यक्षं पूर्वापरकालभाविनीनां जानव्यक्तीनां प्रामाण्याप्रामाण्यव्यवस्थापकं निमित्त मुपलक्षयितुं क्षमते न चायं स्वप्रतौतिगोचराणामपि ज्ञानव्यक्तीनां परं प्रति प्रामाण्यमप्रामाण्यं वा व्यवस्थापयितुं प्रभवति तस्माद्यथादृष्टतानव्यक्तिसाधर्म्यहारेणेदानीन्तन जानव्यक्तीनां प्रामाण्याप्रामाण्यव्यवस्थापक परप्रतिपादकं च प्रमाणान्तरमनुमानरूपमुपासीत परलोकादिनिषेधश्च न प्रत्यक्षमावण शक्यः कर्त संनिहितमानविषयत्वात् तस्य परलोकादिकं चाप्रतिषिध्य नायं सुखमास्ते प्रमाणान्तरं च नेच्छतौति डिम्भहेवाकः किं च प्रत्यक्ष स्थाप्यर्थाव्यभिचारादेव प्रामाण्यं कथमितरथास्नानपानायगाहनाद्यर्थक्रियाऽसमर्थे मरुमरीचिकानिचयचुम्बिनि जलत्ताने न प्रामाण्यं तन्वार्थपतिबदलिङ्गशब्दहारा समुन्मज्जतोरनुम.नागमयोरप्यर्था