________________
१६२
स्थाहादमञ्जरी। शब्दार्थ: नास्ति परलोकः पुण्यं पापमिति वा मतिरख"नास्तिकास्तिकदैष्टिकमि"ति निपातनान्नास्तिकस्तस्य नास्तिकस्य लोकायितकस्य वक्तमपि न सांप्रतं वचनमप्युच्चारयितुं नोचितं ततस्तूष्णीभाव एवास्य श्रेयान् दूरे प्रामाणिकपरिषदि प्रविश्य प्रमाणोपन्यासगोष्ठी वचनं हि परप्रत्यायनाय प्रतिपाद्यते परेण चाप्रतिपित्सितमर्थ प्रतिपादयन्नासौ सतामवधेयरचनो भवति उन्मत्तवत् ननु कथमिव तूष्णीकतैवास्य श्रेयसी यावता चेष्टाविशेषादिना प्रतिपादस्याभि प्रायमनुमाय सुकरमेवानेन वचनोच्चारगामित्याशयाह क चेष्टा क दृष्ट मात्र चेति केति बहदन्तरे चेष्टाइङ्गितं पराभिप्रायरूपस्यानुमेयम्य लिङ्ग क्व च दृष्टमात्र दर्शनं दृष्टं भावे तः दृष्टमेव दृष्टमात्र प्रत्यक्षमात्र तस्य लिङ्गनिरपेक्षप्रवृत्तित्वादत एव टूरमन्तरमेतयोः न हि प्रत्यक्षेणातौन्द्रियाः परचेतोहत्तयः परिजातं शक्यास्तस्यैन्द्रियकत्वात् मुखप्रसादादिचेष्टया तु लिङ्गभूतया पराभिप्रायस्य निश्चयेऽनुमानप्रमाणमनिच्छतोऽपि तस्य बलादापतितं तथा हि महचनश्रवगांभिप्रायवानयं पुरुषस्ताहगमखप्रसादादिचेष्टाऽन्यथाऽनुपपत्तरिति अतश्च हहा प्रमादः हहा इति खेदे अहो तस्य प्रमादः प्रमत्तता यदनुभूयमानमप्यनुमानं प्रत्यक्षमात्राङ्गीकारेणापन्हते अत्र च संपूर्वस्य वेत्ते रकमक त्त्व एवात्मनेपदम् अत्र तु कर्मास्ति तत्कथमत्रानश् अबोच्यते ऽत्र संवेदितुं शक्तः संविदान दू