________________
स्थाबादमञ्जरी। १६१ वाइहिनि कमणमनोरथः सफलतां कलयति नापरथेति काव्यार्थ: अथ वा शकुन्तपोतयोायः स इत्यपि व्याख्यानं खधिया भावनोयम् अत्र पोतशब्देन प्रवहणमुच्यते ॥ १६ ॥
एवं क्रियावादिनां प्रावाटुकानां कतिपयकुग्राहनिग्रहं विधाय सांप्रतमक्रियावादिलोकायतिकानां मतं सर्वाधमत्वादन्त उपन्यसन् तन्मतमूलस्य प्रत्यक्षप्रमाणस्यानुमानादिप्रमाणान्तरानङ्गीकार किञ्चिकरत्वप्रदर्शनेन तेषां प्रज्ञायाः प्रमादमादर्शयति । विनानुमानेन पराभिसन्धिमसंविदानस्य तु नास्तिकस्य । न सांप्रतं वक्तुमपि क चेष्टा क दृष्टमात्रं च हहा प्रमादः ॥२०॥
प्रत्यक्षमेवैकं प्रमाणमिति मन्यते चार्वाकस्तत्र संनद्यते अनु पश्चाल्लिङ्गलिङ्गिासम्बन्धग्रहणस्मरणानन्तरं भीयते परिच्छिदाते देशकालस्वभावविप्रकृष्टोऽर्थोऽनेन ज्ञानविशेषणेत्यनुमानं प्रस्तावात्स्वार्थानुमानं तेनानुमानेन लैङ्गिकप्रमाणेन विना पराभिसन्धि पराभिप्राय म् असंविदानस्य सम्यगजीनानस्य तुशब्दः पूर्ववादिभ्यो भेदद्योतनार्थः पूर्वेषां वादिनामास्तिकतया विप्रतिपत्तिस्थानेषु क्षोदः कृतो नास्तिकस्य तु वक्तुमपि नौचितौ कुत एव तेन स ह क्षोद इति तु