________________
स्याहादमञ्जरो। १५६ बौद्धमते वासनापि तावन्नघटते इति निविषया तत्र भेदादिविकल्पचिन्ता तल्लक्षणं हि पूर्वक्षणेनोत्तरक्षास्य वासना न चास्थिराणां भिन्नकालतयाऽन्योन्यासंबद्धानां च तेषां बास्यवासकभावो युज्यते स्थिरस्य संबदस्य च वस्वादेर्मुगमदादिना वास्यत्वं दृष्टमिति अथ पूर्वचित्तसहजाच्चेतनाविशेषात्पूर्व शक्तिविशिष्टं चित्तमुत्पद्यते सोऽस्य शक्तिविशिष्टचित्तोत्पादे वासना तथा हि पूर्वचित्तं रूपादिविषयं प्रहत्तिवितानं यत्तत्षड्विधं पञ्च रूपादिविज्ञानान्यविकल्पकानि षष्ठं च विकल्पवित्ज्ञानं तेन सह जातः समानकालश्चेतनाविशेषो ऽहंकारास्पदमालयविज्ञानं तस्मात्पूर्वशक्तिविशिष्टचित्त त्यादो वासनेति तदपि न अस्थिरत्त्वाहासकैनाप्सम्बन्धाच्च यश्चासौ चेतनाविशेषः पूर्वचित्तसहभावौ स न वर्तमाने चेतस्यपकारं करोति वर्तमानस्याशक्यापनेयोपनेयत्वेनाधिकार्यत्वात् तद्दि यथा भूतं जायते तथा भूतं विनश्यति इति नाप्यनागते उपकार करोति तेनसहासंबद्धत्त्वात् असंबद्धं च न भावयती युक्तं तस्मात् सौगतमते वासनापि न घटते तत्र च स्तुतिकारेणाभ्युपत्यापि तामन्वयिव्यस्थापनाय भेदादिचर्चाविरचितेति भावनीयम् अथोत्तरार्धव्याख्या तत इति पक्षत्रयेपि दोषसद्भावात्वदुतानि भवचनानि भेदाभेदस्याहादसंवादपूतानि परे कुतीर्थ्याः प्रकरणा मायातनयाः श्रयन्तु प्राट्रियन्ताम् अत्रोपमानमाह