________________
१५८ स्थाहादमञ्जरी। प्रतिपद्येन च भेदं कि वनुभयमिति तदप्यनुचितं भेदाभेदयोविधिनिषेधरूपयोरेकतरप्रतिषेधेऽन्यतरस्यावश्यं विधिभावादन्यतरपक्षाभ्युपगमस्तन च प्रागुक्त एव दोषः अथ वा ऽनुभयरूपत्वे ऽवस्तुत्त्वप्रसङ्गो भेदाभेदलक्षणपक्षहयव्यतिरिक्तस्य मार्गान्तरस्यानस्तित्वा. दनाहतानां हि वस्तुना भिन्नेन वा भाव्यमभिन्नेन वा तदुमयातीतसा बन्ध्या स्तनन्धयप्रायत्त्वात् एवं विकल्पवयेऽपि क्षगपरंपरावासनयोरनुपपत्तौ पारिशेष्याहुदाहुदपक्ष एव कक्षीकरणीयः न च "प्रत्येक यो भवेहोषो इयोर्भावे कथं न स" इति वचनादत्रापि दोषतादवस्थ्यमिति वाच्यं कुक्कुटसर्पनरसिंहादिवज्जात्यन्तरत्वादनेकान्तपक्षस्य नन्वाहताना वासनाक्षणपरंपरयोरङ्गीकार एव नास्ति तत्कथं तदाश्रयभेदाभेदचिन्ता चरितार्था इति चेन्नैवं समाहादवादिनामपि हि प्रतिक्षणं नवनवपर्यायपर परीत्यत्तिरभिमतैव तथा च क्षणिकत्वम् अतीतानागतवर्तमानपर्यापपरंपरानुसन्धायकं चान्वयि द्रव्यं तच्च वासनेतिसंत्तान्तरभागपि अभिमतमेच न खलु नामभेदाद्वादः कोऽपि कोविदानां सा च प्रतिक्षणोद्भविष्णपर्यायपर परान्वयिद्रव्यात्कथं चिनिन्ना कथं चिदभिन्ना तथा तदपि तसा: साभिन्न सवादभिन्न मिति पृथक्प्रत्ययव्यपदेशविषयत्वाङ्गेदो द्रव्य म्यैव च तथा तथा परिणमनादभेदः एतच्च सकलादेशव्याख्याने पुरस्तात्मपञ्चयिष्यामः अपि च