________________
१५२
स्याद्वादमञ्जरौ |
सा अविमत्मिकेन बलेन वर्तते साहसिको भाविनमनर्थमविभाव्य यः प्रवर्तते स एवमुच्यते महांश्चासौ साहसिकश्च महासा हसिकोऽत्यन्तमविमृश्य प्रवृत्तिकारीति मुकुलितार्थः विवृतार्थस्त्वयं बौद्धा बुद्धिच णपरंपरामात्रमेवात्मानमामनन्ति न पुनमौक्तिककयनिकरानुस्मृतैक सूत्रबत्तदन्वयिनमेकं तन्मते येन ज्ञानचणेन सदनुष्ठानमसदनुष्ठानं वा कृतं तस्य निरन्वयविनाशान्न तत्फलोपभोगो यसा च फलोपभोगस्तेन तत्कर्म न कृतमिति प्राच्यज्ञानक्षणस्य कृतप्रणाशः स्वकृतकर्मफलानुपभोगात् उत्तरज्ञानक्षणस्य चाकृतकर्मभोगः स्वयमकृतस्य कर्मणः फलोपभोगादिति अव कर्मशब्दः उभयत्रापि योज्यः तेन कृतकर्मप्रणाश इत्यर्थो दृश्यः बन्धानुलोम्याच्चेत्यमुपन्यासः तथा भवभङ्गदोषो भव आर्जवीभावलक्षणः संसारस्तसा भङ्गो विलोपः स एव दोषः क्षणिकवादे प्रसज्यते परलोकाभावप्रसङ्ग इत्यर्थः परलोकिनः कसाचिदभावात् परलोको हि पूर्वजन्मकृतकर्मानुसारेण भवति तच्च प्राचीनज्ञानक्षणानां निरन्वयं नाशात्केन नामोपभुज्यतां जन्मान्तरे यच्च मोक्षाकरगुप्तेन यच्चित्तं तचित्तान्तरं प्रतिसंधत्ते यथेदानीन्तनं चित्तं चित्तं च मरणकालभावीति भवपरंपरासिये प्रमा
मुक्तं तद्व्यर्थं चित्तक्षणानां निरवशेषनाशिनां चितान्तरप्रतिसंधानायोगात् द्वयोरवस्थितयोर्हि प्रतिसंधानमुभयानुगामिना केन चित्क्रियते यश्चानयोः प्र