________________
स्याहादमञ्जरौ।
१५१ किंचित्करत्त्वात् अथ प्रमाणात् तन्न अवास्तवत्वग्राहकं प्रमाणं सांटतमसांवृतं वा स्यात् यदि सांटतं कथं तस्मादबास्तवादास्तवस्य शून्यवादस्य सिद्धिप्राप्तः स्तथा च वास्तव एव समस्तोऽपि प्रमानादिव्यवहारः अथ तद्ग्राहकं प्रमाणं स्वयमसांरतं तर्हि क्षीणा: प्रमानादिव्यवहारा वास्तवत्व पतिज्ञातेनैव व्यभिचारात्तदेवं पक्षहयेऽपि इतो व्याघ्र इतस्तटोतिन्यायेन व्यक्त एव परमार्थत: स्वाभिमतसिद्धिविरोध इति काव्यार्थः ॥ १७॥ ___ अधुना क्षणिकवादिन ऐहिकामुनिकव्यवहारानुपपन्नार्थसमर्थनमविमृश्पकारिताकारितं दर्शयनाह। कृतप्रणाशाकतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिच्छबहो महासाहसिकः परस्ते॥१८॥
कृतप्रणाश दोषमकृतकर्मभोगदोषं प्रमोक्षभङ्ग दोषं स्मृतिभङ्गदोषमित्येतान् साक्षादित्यनुभवसिद्धान् उपेक्ष्यानादृत्य साक्षात्कुर्वन्नपि गजनिमोलिकामवलम्बमानः क्षणभङ्गम् उदयानन्तरविनाशरूपक्षणक्षयितामिच्छन् प्रतिपद्यमानस्ते तव परः प्रतिपक्षो वैनाशिकः सौगत इत्यर्थः अहो महासाहसिकः सह