________________
१५०
स्याद्वादमञ्जरी ।
सिद्ध आगमादण्यात्मा "रागेश्राया" इत्यादिवचनात् तदेवं प्रत्यक्षानुमानागमैः सिद्धः प्रमाता प्रमेयं चानन्तरमेव बाह्यार्थसाधने साधितं तत्सिद्धौ च प्रमाणं ज्ञानं प्रमेयाभावे कस्य ग्राहकमस्तु निर्विषयत्वादिति प्रलापमाचं करणमन्तरेण क्रियासिद्धेरयोगात् लवनादिषु तथादर्शनात् यच्चाव समकालमित्याद्युतं तत्र विकल्पद्दयमपि स्वीक्रियत एव अस्मदादिप्रत्यक्षं हि समकालार्थाकलनकुशलं स्मरणमतीतार्थस्य ग्राहकं शब्दानुमाने च वैकालिकस्याप्यर्थस्य परिच्छेद के निराकारं चैतद्द्यमपि न चातिप्रसङ्गः खज्ञानावरणवौर्यान्तरायक्षयोपशमविशेषवशादेवास्य नैयत्येन प्रवृत्तिः शेषविकल्पानामखोकार एव तिरस्कारः प्रमितिस्तु प्रमाणसा फलं खसंवेदनसिव न
नुभवेऽभ्युपदेशापेक्षा फलं च विधानन्तर्पयारं पर्यभेदात् तत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलं पारंपर्येणकेवलज्ञानस्य तावत् फलमौदासीन्यं शेषप्रमाणानां तु हानोपादानोपेचाबुदय इति सुव्यवस्थितं प्रमावादिचतुष्टयं ततश्च ।
नासन्न सन्न सदसन्न चाप्यनुभयात्मकम् । चतुष्कोटिविनिर्मुक्तं तत्त्वमाध्यात्मिका विदुः ॥
इत्युन्मत्तभाषितं किं चेदं प्रमातादीनाम् अवास्त वत्वं शून्यवादिना वस्तुटच्या तावदेष्टव्यं तच्चासौ प्रमाणादभिमन्यते ऽप्रमाणादा न तावदप्रभागात्तस्या