________________
१४ई
स्वादादमञ्जरी ।
सा भगवती तथापि प्रामाणिक समयपरिपालनार्थं किञ्चित्तत्साधनं दूष्यते तत्र यत्तावदुक्त प्रमातुः प्रत्यक्षेण न सिद्धिरिन्द्रियगोचरातिक्रान्तत्वात् इति तसिद्धसाधनं यत्पुनरहं प्रत्ययेन तस्य मानसप्रत्यक्षत्वमनैकान्तिकमित्युक्तं तदसिद्धम् अहं मुख्यहं दुःखोत्यन्तर्मुखस्य प्रत्ययस्य आत्मालम्बनतयैवोपपत्तेः त
था चाहः ।
सुखादिचेत्यमानं हि खतन्त्रं नानुभूयते । मतुवर्थानुवेधात्तु सिद्धं ग्रहणमात्मनः ॥ इदं मुखमिति ज्ञानं दृश्यते न घटादिवत् । अहं सुखोति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका ॥ यत्पुनरहं गौरोऽहं श्याम इत्यादिबहिर्मुखः प्रत्ययः स खल्वात्मोपकारकत्वेन लक्षणया शरीरे प्रयुज्यते यथा प्रियभृत्येऽहमिति व्यपदेशः यच्च । हंप्रत्ययस्य कादाचित्कत्वं तवेयं वासना आत्मा तावदुपयोगलक्षणः स च साकारानाकारोपयोगयोरन्यतरस्मिन्नियमेनोपयुक्त एव भवति अहं प्रत्ययोऽपि चोपयोंगविशेष एव तस्य च कर्मक्षयोपशमवैचित्र्यादिन्द्रियानिन्द्रियालोकविषयादिनिमित्तसव्यपेक्षतया प्रववर्त्तमानस्य कादाचित्कत्त्वमुपपन्नमेव यथा बीजं सत्यामप्यङ्क रोपजननशक्तौ पृथिव्युदकादिसहकारिकार - कलापसमवहितमेवाङ्करं जनयति नान्यथा न चै - तावता तस्याङ्करोत्पादने कादाचित्केऽपि तदुत्पाद