________________
स्थाहादमचरौ।
१४७
नशक्तिरपि कादाचित्को तस्याः कथं चिन्नित्यत्वादेवमात्मनः सदा सन्निहितत्वेऽप्यहंप्रत्ययस्य कादाचिकत्वं यदप्युक्तं "तस्याव्यभिचारि लिङ्ग किमपि नोपलभ्यत" इति तदप्यसारं साध्याविनाभाविनोऽनेकस्य लिङ्गस्य तत्रोपलव्धेः तथा हि रूपाद्यपलब्धिः सकत्तका क्रियात्वात् छिदिक्रियावत् यश्चास्याः कर्ता स अात्मा न चान चक्षुरादीनां कत्त्वं तेषां कुठारादिवत् करणत्वेनास्वतन्त्रत्वात् करणत्वं चैषां पौगलिकत्त्वेनाचेतनत्त्वात् परप्रेयत्वात् प्रयोक्तव्यापारनिरपेचप्रत्यभावात् यदीन्द्रियाणामेव कर्तत्वं स्यात्तदा तेषु विनष्टेषु पूर्वानुभूतार्थस्मृतमयो दृष्टं स्टष्टम् आघातम् आवादितं श्रुतमिति प्रत्ययानामेककत्तकत्त्वप्रतिपत्तेश्च कुतः सम्भवः किं चेन्द्रियाणां स्वस्वविषयनियतत्वेन रूपरसयोः साहचर्यप्रतीतौ न सामर्थ्यम् अस्ति च तथाविधफलादे रूपग्रहणानन्तरं तसहचरितरसानु मरणं दन्तोदकसंप्लवान्यथानुपपत्तेः तस्मादभयोगवाक्षयोरन्तर्गतः प्रेक्षक व हाभ्यामिन्द्रियाभ्यां रूपरसयोर्दी कश्चिदेकोऽनुमौयते तस्माकरणान्येतानि यश्चेषां व्यापारयिता स अमा तथा साधनोपादानपरिवर्जनहारेण हिताहितप्राप्तिपरिहारसमर्था चेष्टा प्रयत्नपूर्विका विशिष्ठक्रियात्वा ट्रयक्रियावत् शरीरं च प्रयत्नवदधिष्टितं विशिष्टक्रियाश्रयत्वाद्रथवत् यश्चास्याधिष्ठाता स आत्मा सारथिवत तथात्रैवपने इच्छापूर्वकविकृतवावाश्रयत्त्वात