________________
१४४ स्थाबादमञ्जरी। सूयुशब्द योदन्तसयोदयनादोायतात्पर्यपरिशुद्यादौ मत्मरिणि प्रयोगादिति इह शून्यवादिनामयमभिसंधिः प्रमाता प्रमेयं प्रमाणं मितिरिति तत्त्वच तुष्टयं परपरिकल्पितमवस्त्वेव विचारासहत्त्वात्तुरगशृङ्गवत् तव प्रमाता ताबदात्मा तसा च प्रमाणग्राह्यत्वाभावादभावस्तथा हि न प्रत्यक्षेण तत्मिदिरिन्द्रियगोचरातिक्रान्तत्वात् यत्त अहंकारप्रत्ययेण तसा मानसप्रत्यक्षत्वसाधनं तदप्यनैकान्तिकं तसमाहं गौरः श्यामो वेत्यादौ शरीराश्रयतया युपपत्तेः किं च यदायमहंकारप्रत्यय आत्मगोचरः सत्रा त्तदा न कादाचित्कः स्यादात्मनः सदा सन्निहितत्वा कादाचित्कं हि ज्ञानं कदाचित्कारणपूर्वकं दृष्टं यथा सौदामिनीज्ञानमिति नाप्यनुमानेन अव्यमिचारिलिङ्गाग्रहणात, आगमानां च परस्परवि. रुद्धार्थ वादिना नात्य व प्रामाण्यं तथा हि एकेन कथमपि कश्चिदर्थो व्यवस्थापितो ऽभियुक्ततरेणोपरेण स एवान्यथा व्यवस्थाप्यते स्वयमव्यवस्थितप्रामाण्यानां च तेषां च कथमन्यव्यवस्थापने सामर्थ्यमिति नास्ति प्रमाता प्रमेयं च बाह्योऽर्थः स चानन्तरमेव बाह्यार्थ प्रतिक्षेपक्षणे निर्लोठितः प्रमाणं च स्वपरावनासित्तानं तच्च प्रमेयाभावे कसा ग्राहकमस्तु निर्विषयत्वात किं चैतदर्थ समकालं तद्भिन्नकालं वा तद्ग्राहकं कलप्येत आग्रपक्षे विभुवनवति नोऽपि पदार्थास्तवावभासेरन् समकालत्वाविशेषात