________________
स्याहादमञ्जरौ। १४३ णाय प्रकरणादस्मै शून्यवादिने कृतान्तस्तत्मिदान्तः कुष्यकोपं कुर्यात् सिद्धान्तबाध: स्यादित्यर्थः यथा किल सेवकस्य विरुष्टत्त्या कुपितो नृपतिः सर्वस्वमपहरति एवं तत्सिद्धान्तोऽपि शून्यवादविरुद्धं पुमागाभावमङ्गोकुर्वाणस्य तस्य सर्वस्वभूतं सम्यग्वादित्वम् अपहरति किं च स्वागमोपदेशेनैव तेन वादिना शून्यवादः पुरुप्यते इति सोकृतमागमस्य प्रामाण्यमिति कुतस्तस्य सपक्षसिट्विः पमाणाङ्गीकरणात् किं च प्रमाणं प्रमेयं विना न भवतीति प्रमाणानङ्गीकरणे प्रमेयमपि विशीर्ण ततश्चासा मूकतैव युक्ता न पुनःसन्यवादोपन्यासाय तुण्डताण्डवडम्बरं शून्यवादमापि प्रमेयत्त्वात् अत्र च स्मृशिधातुं कृतान्तशब्द प्रयुञानसा सूरेरयमभिप्राय: यदासौ शून्यवादौ दूरे प्रमाणस्य सर्वथाङ्गीकारे यावत्प्रमाणस्पर्शमात्रपि विधत्ते तस्मै कृतान्तो यमराजः कुप्येत् तत्कोपी हि मरणफलस्ततश्च ससिद्धान्तविरुद्धमसौ प्रमाणयनिग्रहस्थानापन्नत्वानरत एवेति एवं सति अहो इत्युपहासप्रशंसायां तुभ्यमसूयन्ति गुणेषु दोषानाविष्कवन्तीत्येवं शीलास्वदयिनस्तन्वान्तरोया तैष्टमत्यज्ञानचक्षुषा निरीक्षितम् अहो सुदृष्टं साधुदृष्टं विपरौतलक्षणयोपहासान्न सम्पगदृष्टमित्यर्थ: प्रवासय धातोस्ताच्छील्यिकणक्प्राप्तावपि बाहुलकामिन् अम्याऽस्त्येषामित्यसयिनस्त्वप्यभूयिन इति मत्वर्थीयान्तं वा त्वदसयदृष्टमिति पाठेऽपि न किंचिदचारु -