________________
स्थाहादमञ्जरौ। १४१ विदरतं ज्ञानमेवैकं तात्त्विकं न बायोऽर्थ इत्वम्युगम इत्यर्थ: तसा पन्थाः मार्ग: संविद तपथस्तस्मिन् ज्ञानातवादपक्ष इति यावकिमित्याह नाथे संवित् येयं बहिर्मुखतयाऽर्थप्रतौतिः सानादनुभूयतेसा न घटते दूत्युपकारः एतच्चानन्तरमेव भावितम् एवं स्थिते सति किमित्याह विलूनशौणं सुगतेन्द्रजालमिति सुगतो मायापुत्रस्तसा सम्बन्धि तेन परिकल्पितं क्षणक्षयादिवस्तुजातम् इन्द्रजालमिवेन्द्रजालमतिव्यामोहविधाटत्वात् सुगतेन्द्रजालं सर्वमिदं विलूनशौणं पूर्व विलून पश्चात् शौर्णं विलनशीण यथा किंचित्तुणस्तम्बादि विलूनमेव शौर्यते विनश्यति एवं तत्कल्पितमिन्द्रजालं टणप्रायं धारालयुक्तिशस्त्रिकया च्छिन्नं सदिशौर्यत इति अथ वा यथा निपुणेन्द्रजालिककल्पितमिन्द्रजालमवास्तवतत्तहसद्भुततोपदर्शनेन तथाविधबुद्धिदुर्विधं जनं विप्रतार्य पश्चादिन्द्रधनुरिव निरवयवं विलनशीर्णतां कलयति तथा सुगतपरिकल्पितं तत्तत्प्रमाणतत्तत्फलाभेदक्षणचयज्ञानार्थ हेतुकतत्वज्ञानाद्वैताभुपगमादि सर्व प्रमाणानभित्तं लोकं व्यामोहयमानमपि युक्त्या विचार्यमाणं विशरामतामेव सेवत इत्यत्र च सुगतशब्द उपहासार्थ : सौगता हि शोभनं गतं ज्ञानमयति सुगत इत्युशन्ति ततश्चाहो तस्य शोभनज्ञानता येनेत्यमयुक्तियुक्ता मुक्तमिति काव्याः ॥१६॥
अथ तत्वव्यवस्थापकप्रमाणादिचतुष्टयव्यवहारा