________________
१४०
स्याद्वादमञ्जरी ।
शे ऽयमारोपयितव्यो नान्यत्रे त्यस्ति नियमे हेतु: वासनानियमात्तदारोप नियम इति चेन्न तस्या अपि तद्देशनियमकारणाभावात् सति धर्थसद्भावे यद्देशीऽर्थ स्तद्देशोऽनुभवस्तद्देशा च तत्पूर्विका वासना बाह्यार्थाभावे तु तस्याः किंकृतो देशनियमः अथास्ति ता - बादारोपनियमो न च कारणविशेषमन्तरेण कार्य - विशेषी घटते बाह्यश्चार्थो नास्ति तेन वासनानामेव वैचिच्च तत्र हेतुरिति चेत्तद्रासनावैचित्र्य बीधाकारादन्यदनन्यद्दा अनन्यचे बोधाकारस्यैकत्वात्कस्तासां परस्परतो विशेषः अन्यच्च दर्थे कः प्रदेषः येन सर्वलोकप्रतौतिरपन्हूयते तदेवं सिदो ज्ञानार्थयोर्भेदः तथा च प्रयोगः विवादाध्यासितं नीलादि ज्ञानादातिरिक्तं विरुद्धधर्माध्यस्तत्त्वात् विरुद्धधर्माध्यासश्च ज्ञानस्य शरीरान्तः अर्थसा च बहि: ज्ञानप्रापरकाले ऽर्थसा च पूर्वकाले वृत्तित्वात् ज्ञानसा आत्मनः सकाशादसा स्वकारणेभ्य उत्पत्तेः ज्ञानसा प्रकाशरूपत्वादर्थसा च जडरूपत्वादिति तो न ज्ञानाद्वैतेऽभ्युपगम्यमाने बहिरनुभूयमानार्थप्रतीति: कथमपि संगतिमङ्गति न च दृष्टमपहोतुं शक्यम् इति अत एवाह स्तुतिकारः न संविदद्वैतपथेऽर्थसंविदिति सम्यगवैपरीत्येन विद्यतेऽवगम्यते वस्तुस्वरूपमनयेति संवित्व संवेदनपक्षे तु संवेदनं संवित् ज्ञानं तसा अइयोर्भावो द्विता द्वितैव द्वैतं प्रज्ञादित्त्वात् स्वाथिंकेऽणि न द्वैतमद्वैतं बाह्यार्थप्रतिक्षेपादेकत्त्वं सं