________________
स्थाद्वादमञ्जरौ। क्षणजनने कुतः सम्भावनापि न चानुपादानस्योत्प. त्तिदृष्टाऽतिप्रसङ्गादिति सुष्ठ व्याहृतं हेतौ विलौने न फलस्य भाव इति पदार्थस्त्वनयोः पादयोः प्रागेवोक्तः केबलमत्र फलमुपादेयं हेतुरुपादानं तनाव उपादानोपादेयभाव इत्यर्थः यच्च क्षणिकत्वस्थापनाय मोक्षाकरगुप्तेनानन्तरमेव प्रलपितं तत् स्याहादवादे निरवकाशमेव निरन्वयनाशवज कथंचित्मिसाधनात प्रतिक्षणं पर्यायनाशस्थानेकान्तवादिभिरभ्यपगमात् यदप्यभिहितं नह्येतत् सम्भवति जीवति च देवदत्तो मरणं चास्य भवतीति तदपि संभवादेव न स्याहादवादिनां क्षतिमावहति यतो जीवनं प्राणधारणं मरणं चायुदलिकक्षयस्ततो जीवतोऽपि देवदत्तस्थ प्रतिसमयमायुदलिकानामुदीनां क्षयादुपपनमेव मरणं न च वाच्यमन्त्यावस्थायामेव कृत्स्नायुदलिकक्षयात् तवेव मरणव्यपदेशो युक्त इति तस्यामप्यवस्थायां प्रत्यक्षेगा तत्क्षयाभावात् तत्रापि ह्यवशिष्टानामेव तेषां क्षयो न पुनस्तत्वण एव युगपत्मर्वेषामिति सिद्ध गर्भादारभ्य प्रतिक्षणं मरणमित्यल प्रसङ्गेन अथ वा ऽपरथा व्याख्या सौगतानां किलार्थेन जानं जन्यते तच्च ज्ञानं तमेव स्वोत्पादकमर्थं गृहातीति जानकारणं विषय इति वचनात् ततश्चार्थ: कारणं ज्ञामं च कार्यमिति एतच्चन चारु यतो यस्मिन् क्षणेऽर्थस्य स्वरूपसत्ता तस्मिन्नद्यापि जानं नोत्पद्यते तस्य तदा खोत्पत्तिमात्रव्यग्रत्त्वात् यत्र च क्षणे तानं