________________
स्याहादमचरौ। १२६ सहेतोर्जातमिति न हि मियते चामरणधर्मा चेति युज्यते वक्तुं तस्मादविनश्वरत्वे कदाचिदपि नाशायोगात् दृष्टत्वाच्च नाशस्य नखरमेव तहस्तु खहेतोरुपजातमेवाङ्गोकर्त्तव्यं तस्मादत्पन्नमात्रमेव विनश्यति तथा च क्षणक्षयित्वं सिद्धं भवति प्रयोगस्त्वेवं यहिनश्वररूपं तदुत्पत्तेरनन्तरानवस्थायि यथान्त्यक्षणवतिघटस्य स्वरूपं विनश्वरस्वरूपं च रूपादिकमुदयकाल इति स्वभावहेतुः यदि क्षणक्षयिणो भावाः कथं तर्हि स एवायमिति प्रत्यभिज्ञा स्यात् उच्यते निरन्तरमहशापरापरोत्पादादविद्यानुबन्धाच्च पूर्वक्षणविनाशकाल एव तत्सदृशं क्षणान्तरमुदयते तेनाकारविलक्षणत्वाभावादब्यवधानाच्चात्यन्तोच्छेदेऽपि स एवायमित्यभेदाध्यवसायौ प्रत्ययः प्रसूयते अत्यन्तभिन्नेष्वपि लनपुनरुत्पन्नकुशकाशकशादिषु दृष्ट एवार्य स एवायमिति प्रत्ययस्तथेहापि किं न सम्भाव्यते तस्मात्सर्वं सत् क्षणिकमिति सिद्धम् अत्र च पूर्वक्षणोपादानकारणं उत्तरक्षण उपादेयमिति च पराभिप्रायमङ्गीकृत्याह न तुल्यकाल इत्यादि ते विशकलितमुक्तावलीकल्या निरन्वयविनाशिनः पूर्वक्षणा उत्तरक्षणान् जनयन्तः किं खोत्पत्तिकाल एव जनयन्ति उत क्षणान्तरे न तावदाद्यः समकालभाविनीयुवतिकुचयोरिवोपादानोपादेयभावाभावादतः साधूर्त न तुल्यकालः फलहेतुभाव इति न च द्वितीयस्तदानों निरन्वयविनाशेन पूर्वक्षणस्य नष्टत्वादुत्तर